________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-५०
वस्तुतः वाह्याभ्यन्तरविभागाभावेऽपि किंनिमित्तकोऽभ्यन्तरव्यपदेशः ? तद् दर्शयन्नाह -
ण य बाहिरओ भावो अब्भंतरओ य अत्थि समयम्मि ।
णोइंदियं पुण पड्डुच्छ होइ अब्भंतरविसेसो ।।५०।। आत्म-पुद्गलयोः परस्परानुप्रवेशात् समये अर्हत्प्रणीतशासने न च बाह्यो भावः अभ्यन्तरो वा सकलवस्तुनो मूर्तामूर्तरूपादितयाऽनेकान्तात्मकत्वाद् अस्ति संभवति । अभ्यन्तरविशेषः पुनः अभ्यन्तर इति व्यपदेशस्तु नोइन्द्रियं मनः प्रतीत्य आश्रित्य भवति ।
एतद् वाच्यम् - पूर्वगाथोक्तप्रकारेण आत्म-पुद्गलयोरन्योन्यानुप्रवेशाच्चतुर्दशरज्ज्वात्मके समग्रलोके सर्ववस्तुनो मूर्त्तामूर्तरूपादितयाऽनेकान्तात्मकत्वात् सर्वं कथञ्चिन्मूर्तं कथञ्चिदमूर्त्तम्, तेन जैनशासने कोऽपि भाव एकान्तेन वाह्योऽभ्यन्तरो वा वक्तुं नोचितम् । तथापि आत्मपरिणतिरूपस्य मनसः पराप्रत्यक्षत्वाद् मन आश्रित्य वस्तु अभ्यन्तरमिति व्यपदिश्यते । तस्माद् मनोभिन्नेन्द्रियाग्राह्यं केवलमनोग्राह्य पदार्थमभ्यन्तरमुच्यते तथा स्पर्शेन्द्रियादिपञ्चेन्द्रियग्राह्यं पदार्थं बाह्यमुच्यते । एतद्व्याख्यानुसारेण यथा पुद्गलमप्यभ्यन्तरं तथा आत्माऽपि बाह्यमुच्यते । यतो बाह्यचेष्टाभिरमूर्तोऽप्यात्मा स्पर्शनेन्द्रियादिभिर्ग्राह्यत्वाद् बाह्यो वक्तुं शक्यते ।।५० ।।
छाया:
અવ. અમુક તત્ત્વ બાહ્ય છે અને અમુક અત્યંતર છે એવા વિભાગ વિષે ખુલાસોगाथा : ण य बाहिरओ भावो अब्भंतरओ य अत्थि समयम्मि ।
णोइंदियं पुण पडुछ होइ अब्भंतरविसेसो ।। ५० ।। न च बाह्यो भावः अभ्यन्तरश्च अस्ति समये ।।
नोइन्द्रियं पुनः प्रतीत्य भवति अभ्यन्तरविशेषः ।। ५० ।। अन्वयार्थ : समयम्मि = uvi - हैनसनमा बाहिरओ = clu भावो = मा
अब्भंतरओ य = भने भ्यंतर भावो = (uq ण य अस्थि = नथी. पुण = qणी, णोइंदियं = नोऽन्द्रिय - मनने पडुछ = आश्रयी अब्भंतरविसेसो = अभ्यंत२५९॥नी विवक्षा होइ = थाय छे.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org