________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा ४७-४८
दुग्ध-जलदृष्टान्तेन जीवकर्मणोरविभागकथनपूर्वकं जीवकर्मणोरपि परस्परप्रवेशपुरस्सरं भेदाभेदभावे येन प्रकारेण तयोरभेदत्वं तद् दर्शयन्नाह -
अण्णोण्णाणुगयाणं 'इमं व तं व' त्ति विभयणमजुत्तं । जह दुद्ध - पाणियाणं जावंत विसेसपज्जाया ।। ४७ ।।
७८
यथा दुग्ध-पानीययोः परस्परप्रदेशानुप्रविष्टयोर्विभजनमयुक्तं तथा अन्योन्यानुगतयोः परस्परप्रदेशानुस्यूतयोर्जीव-कर्मणोः 'इदं वा तद् वा' इति 'इदं कर्म अयमात्मा' इति यद् विभजनं तदयुक्तं तदघटमानकं तयोः पृथक्कर्त्तुमशक्यत्वात् । ततो जीवकर्मणोरभिन्नत्वम् । अयं च जीवकर्मणोरविभागो यावन्तो विशेषपर्यायास्तावान् ज्ञेयः ।
इदं भाव्यम् - यथा दुग्धं जलं चैकाकीभावमाप्नोति तत्र च ' इदं दुग्धम् इदं जलमिति विभजनं कर्तुं न शक्यम्, तथा प्रतिप्रदेशं जीवकर्मणोरनुस्यूतत्वाद् 'अयं जीव इदं च कर्म' इति विभजनमघटमानकम् । अन्त्यविशेषपर्यन्ता यावन्तो विशेषपर्यायास्तेष्वयं विभागः कर्तुमशक्यं ज्ञेयम्, अर्थात्ते पर्याया उभयेषां ज्ञेयाः, न तु प्रतिनियतस्य ।। ४७ ।। जीवकर्मणोरन्योन्यानुप्रवेशे तदाश्रितज्ञानादि-रूपादीनामपि परस्परनुप्रवेशं वर्णयन्नाह
रूआइपज्जवा जे देहे जीवदवियम्मि सुद्धम्मि ।
ते अण्णोण्णाणुगया पण्णवणिज्जा भवत्थम्मि ।।४८ ।।
देहे देहाता ये रूपादिपर्याया रूप-रस- गन्ध-स्पर्शादयो पर्याया तथा शुद्धे जीवद्रव्ये निर्मलात्मनि ये ज्ञानादयः पर्यायास्तेऽन्योन्यानुगताः परस्परप्रविष्टा भवस्थे संसारिजीवे अकार लेषाद्वा अभवस्थे सिद्धात्मनि प्ररूपणीयाः ।
अयं गूढार्थ:- शुद्धात्मनि स्थितानि ज्ञानादीनि तथा देहाश्रितानि रूपादीनि । तदाश्रययोः परस्परानुप्रवेशात्तेषामपि परस्परानुप्रवेशः स्वीकरणीयः । ततः संसारिजीवे रूपादयस्तथा देहे ज्ञानादयः प्ररूपणीयाः । तेनैव प्रकारेण धियोऽपि प्रवर्तन्ते यथा श्यामोऽहं जानामि, मृदुस्पर्शो बाल इत्यादि । तथा संसारिजीवस्येव मुक्तजीवेऽपि देहशुद्धजीवयोः पर्याया अन्योन्यत्वेन प्ररूपणीयाः । तद्यथा - सिद्धात्मा स्वीयज्ञानपर्यायेण दर्शनपर्यायेण च जगद्वर्तीनि
Jain Education International 2010_02
For Private & Personal Use Only
-
www.jainelibrary.org