________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४४-४६
अधुना केवलद्रव्यास्तिकनयस्य प्ररूपणाऽपि न सम्यगिति दर्शयन्नाह -
ण य होइ जोव्वणत्थो बालो अण्णो वि लज्जइ ण तेण ।
ण वि य अणागयवयगुणपसाहणं जुज्जइ विभत्ते ।।४४।। न च भवति यौवनस्थः पुरुषो बालः किन्तु कथञ्चित्ततो भिन्न एव, बालावस्थात्यागं विना यौवनावस्थाया अभावात् । अन्योऽपि यदि तयोरेकान्तभेद एव स्यात्तर्हि न लज्जते बालचरितेन, तेन यौवनस्थः पुरुषः कथञ्चिष्टालादभिन्नोऽपि । विभक्ते अत्राऽकारप्रश्लेषादविभक्ते यौवनवृद्धावस्थयोरेकान्ताभेदे मन्यमाने सति नाऽपि च अनागतवयोगुणप्रसाधनमनागतवृद्धावस्थायां सुखप्राप्त्यर्थमुत्साहादिरपि युज्यते, अविचलितस्वरूपत्वात् ।
अयं तात्पर्यार्थः - द्रव्यास्तिकनयोऽभेदं गृह्णाति न तु भेदम् । पुरुषरूपेणैव तत्त्वं स्वीकरोति न तु बाल-यौवनादिरूपेण । तन्न सम्यग्, यतोऽभेदे 'अयमिदानीं युवा न बाल:, अयमिदानीं वृद्धो न युवा' इत्यादि कथञ्चिद्भेदव्यहारप्रतिभासस्य बाधितत्वात् । किञ्च पूर्वावस्थात्यागेनैवोत्तरावस्थायाः स्वीकारादभेदे मन्यमाने युवावस्थापरिग्रहोऽपि न घटते । तस्मान केवलं भेदरूपं तत्त्वं नापि केवलाभेदरूपम्, किन्तु भेदाभेदरूपम्, अन्यथा सकलव्यवहारोच्छेदप्रसङ्गः । कथञ्चिद् भेदाद् बाल-यौवनाद्यवस्थाः तथा कथञ्चिदभेदाद् बालचरितेन लज्जा अनागतसुखाय चोत्साहादयो घटन्ते ।।४४ ।। पुरुषवस्तुनि बाह्यप्रत्यक्षेणाऽपि भेदाभेदसंबन्धं कथयन्नाह -
जाइ-कुल-रूव-लक्खण-सण्णा-संबंधओ अहिगयस्स ।
बालाइभावदिट्ठविगयस्स जह तस्स संबंधो ॥४५।। जातिकुलरूपलक्षणसंज्ञासम्बन्धतो जातिः पुरुषत्वादिका, कुलं पितृजन्यम्, रूपं चक्षुर्ग्राह्यत्वलक्षणम्, लक्षणं तिलकादि सुखादिसूचकम्, संज्ञा प्रतिनियतशब्दाभिधेयत्वम् सम्बन्धो जन्यजनकभावः एभिः अधिगतस्याभेदावभासविषयस्य बालादिभावदृष्टविगतस्य दृष्टैर्बालादिभावैरुत्पादविगमात्मकस्य तथाभेदप्रतीतेस्तस्य पुरुषस्य यथा सम्बन्ध उक्तप्रकारेण भेदाभेदरूपो बाह्यप्रत्यक्षेण घटते ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org