________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३६-४०
सप्तमभङ्गं कथयन्नाह -
सब्भावाऽसब्भावे देसो देसो य उभयहा जस्स ।
तं अस्थि णत्थि अवत्तव्वयं च दवियं वियप्पवसा ।।४०।। यस्य घटादेर्वस्तुनो एको देशोऽवयवो देशो धर्मो वा सद्भावेऽस्तित्वे निष्टिातः, द्वितीयदेशष्टा असद्भावे नास्तित्वे निष्टिातः, तृतीयदेशस्तु उभयथा ‘सन्नसंप्टा' इत्येवं युगपन्निष्टिातः इत्येवं विकल्पवशाद् विवक्षावशादर्थाद् देशानां सदसदवक्तव्यव्यपदेशात् तद् द्रव्यमपि अस्ति-नास्ति-अवक्तव्यं च भवति ।
अयं परमार्थः - सप्तभङ्गीमध्ये सप्तमभङ्गोऽस्ति-नास्ति-अवक्तव्यरूपः । यदा घटादेर्वस्तुनो एकदेशोऽस्तित्वे, एकदेशो नास्तित्वे तथा तृतीयदेशोऽवक्तव्ये विवक्षितः, तदा तद् द्रव्यमस्ति-नास्ति-अवक्तव्यरूपं सप्तमभङ्गमाप्नोति । तथाविधविवक्षावशात् प्रथमद्वितीय-तृतीयभङ्गव्युदासो ज्ञेयः ।
एते च सप्तभङ्गा यदि स्यात्पदेनालाञ्छिता अवधारणार्थाप्टा भवन्ति तर्हि दुर्नयस्वरूपाः । धर्मान्तरोपादानैकान्तप्रतिषेधाकरणात स्वार्थमात्रप्रतिपादनप्रवणा एते सुनयस्वरूपा अथवा स्यात्पदलाञ्छनस्वेष्टविवक्षितैकधर्मावधारणवशात सुनयात्मकाः, तथा स्यात्पदलाञ्छितास्ते एव प्रमाणतां नयन्ति । एवम् ‘अस्त्येव' इत्यादि वाक्यं दुर्नयरूपम्, 'अस्ति स्यादस्त्येव वा' इत्यादि सुनयरूपम्, ‘स्यादस्ति' इत्यादि तु प्रमाणरूपं ज्ञेयम् । _आद्यास्त्रयो मूलभङ्गाः सकलादेशशब्देनोच्यन्ते तथा तेषामेव परस्परयोजनेन भवन्तः शेषाप्टात्वारो भङ्गा विकलादेशशब्देनोच्यन्ते ।
एते सप्तभङ्गाः परस्पररूपापेक्षया स्वार्थं प्रतिपादयन्तो यथार्था भवन्ति, नान्यथा । अनन्तधर्मात्मकवस्तुन प्रतिपादकानि वचनानि सप्त एव, निमित्ताभावेनाष्टमवचनपरिकल्पनाया असंभवाद् । तज्ज्ञातुकामेन च बृहद्वत्तिरवगाह्या ।।४०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org