________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ३६-४०
पञ्चमभङ्गं निरूपयन्नाह
सब्भावे आइट्ठो देसी देसो य उभयहा जस्स ।
तं अस्थि अवत्तव्वं च होइ दविअं वियप्पवसा ।। ३८ ।।
यस्य घटादेर्वस्तुनो देश एकावयवः सद्भावेऽवक्तव्यानुविद्धास्तित्वस्वभावे आदिष्टो विवक्षितः, अन्यथा तदसत्त्वात् । तस्यैव वस्तुनोऽपरदेशष्टा उभयथा अस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितः अस्तित्वानुविद्ध एवावक्तव्यस्वभावः, अन्यथा तदसत्त्वप्रसक्तेः । तद् घटादिद्रव्यं विकल्पवशात् तथाविवक्षावशादस्ति अवक्तव्यं च भवति ।
इदं विभाव्यम् - सप्तभङ्गीमध्ये पञ्चमभङ्गोऽस्ति - अवक्तव्यरूपः । यदा घटादेर्वस्तुनो एकदेशो ऽवक्तव्यानुविद्धस्वभावेऽस्तित्वे तथाऽपरदेशोऽस्तित्वानुविद्धेऽवक्तव्यस्वभावे विवक्षितस्तदा तद् द्रव्यमस्ति - अवक्तव्यरूपं पञ्चमं भङ्गमास्कन्दति । तथा विवक्षावशाद प्रथम-तृतीयकेवलभङ्गव्युदासेन पञ्चमभङ्गः प्रदर्शितः । तथापरिणतयोर्धर्मयोस्तथाव्यपदेशे धर्म्यपि तद्द्वारेण तथैव व्यपदिश्यते ।। ३८ ।।
षष्ठभङ्गकं दर्शयन्नाह -
आइट्ठोऽसब्भावे देसो देसो य उभयहा जस्स ।
तं णत्थि अवत्तव्वं च होइ दवियं वियप्पवसा ।। ३९ ।।
६१
यस्य वस्तुन एकदेशो 'असन्नेवायम्' इत्यवक्तव्यानुविद्धेऽसद्भावे नास्तित्वे आदिष्टः, इतरदेशष्टा उभयथा ‘सन्नसंष्टा' इत्यसदनुविद्धो युगपन्निष्टितस्तदा तद् द्रव्यं विकल्पवशाद् विवक्षावशान्नास्ति-अवक्तव्यं च भवति ।
इदं व्यपदेश्यम् - सप्तभङ्गीमध्ये षष्ठभङ्गो नास्ति - अवक्तव्यरूपः । यदा घटादेर्वस्तुनो एकदेशोऽवक्तव्यतानुविद्धनास्तित्वस्वभावे तथेतरदेशष्टा नास्तित्वानुविद्धावक्तव्यस्वभावे विवक्षितस्तदा तद् द्रव्यं नास्ति- अवक्तव्यरूपम् । तद्व्यपदेश्यावयववशाद् द्रव्यमपि तद्व्यपदेशमाप्नोति । ततः केवलद्वितीय-तृतीयभङ्गव्युदासेन षष्ठभङ्गो दर्शितः ।। ३९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org