________________
६०
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३६-४०
अनेकान्तात्मकं वस्तुतत्त्वं परिज्ञातुं सप्तभङ्गी ज्ञातव्या, अतस्तत् प्रतिपादनाय तेषु प्रथम भङ्गत्रयं प्ररूपयन्नाह -
अत्यंतरभूएहि य णियएहि य दोहि समयमाईहिं ।
वयणविसेसाईयं दव्वमवत्तव्वयं पडइ ।।३६।। अर्थान्तरभूतैप्टा परपर्यायैः, निजकैप्टा स्वपर्यायैः, स्वपरपर्यायैः प्रधानगुणभावेन स्तुनः स्यादस्ति, स्यान्नास्तीति दौ भनौ भवतः । आदिभ्यां द्वाभ्यां प्रागुक्ताभ्यां प्रकाराभ्यां समकं युगपद् विवक्षितं द्रव्यं तथाभूतस्य वस्तुनोऽभावात् वचनस्य वा तथाभूतस्याभावाद् वचनविशेषातीतं प्रतिपादकवचनातीतत्वे सति अवक्तव्यं पतति अवक्तव्यतामेति तृतीयभङ्गकविषय-मास्कन्दतीत्यर्थः ।
इदं विभाव्यम् - सप्तभङ्गीमध्ये प्रथमभङ्गः स्यादस्तिरूपः स च स्वपर्यायैः । द्वितीयभङ्गः स्यान्नास्तिरूपः स च परपर्यायैः । तृतीयभङ्गस्तु स्यादवक्तव्यरूपः, स चाद्यद्विप्रकारेण वस्तु यदा युगपदभिधातुमिष्टं भवति तदा स्यात्, तद्रूपवस्तुनो वागतिक्रान्तत्वात् । यथा - घटो घटत्वादिस्वपर्यायैः स्यादस्ति-१, पटत्वादिपरपर्यायैः स्यान्नास्ति-२, घटत्वादिस्वपर्यायैः स्यादस्ति, पटत्वादिपरपर्यायैः स्यान्नास्तीति युगपदभिधातुमशक्यत्वात् स्यादवक्तव्यम्-३ ।।३६ ।। चतुर्थभङ्गकं प्रतिपादयन्नाह -
अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ ।
तं दवियमत्थि णस्थि य आएसविसेसियं जम्हा ।।७।। अथ इति यदा देशो वस्तुनोऽवयवो देशो धर्मो वा सद्भावेऽस्तित्वे नियतः ‘सन्नेवायम्' इति निष्टिातः, अपरप्टा देशोऽसद्भावपर्याये नास्तित्वे नियतः 'असन्नेवायम्' इति निप्टिातः । तदा तद् द्रव्यमस्ति नास्ति चेति भवति, यस्मादादेशविशेषितमस्तिनास्त्युभयप्रधानावयवविभागेन विशेषितम् । __इदं कल्यम् - सप्तभङ्गीमध्ये चतुर्थभङ्गः स्यादस्तिनास्तिस्वरूपः । यदा एकस्यैव घटादिवस्तुन एकावयवो घटत्वादिस्वपर्यायैर्नियतः, अपरप्टाावयवः पटत्वादिपरपर्यायैर्नियतस्तदायं चतुर्थो भङ्गो घटते-४ ।।३७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org