________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२८
-: अनेकान्तव्यवस्थायां :
व्यवहारनयस्वरूपवर्णने, पत्र ३० एतदेवाह [सम्मतौ] -
णिययवयणिजसा, सव्वणया परवियालणे मोहा ।
ते पुण ण दिट्ठसमओ, विभयइ सचे व अलिए वा ।। १/२८ ।। निजकवचनीये स्वांशे परिच्छेद्ये, सत्याः सम्यग्ज्ञानरूपाः, सर्व एव नयाः सङ्ग्रहादयः, परविचालने परविषयोत्खनने, मुह्यन्तीति मोहा मिथ्याप्रत्ययाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात्, तदभावे स्वविषयस्याप्यव्यवस्थितेः, तस्मात्तानेव नयान्, पुनः शब्दस्यावधारणार्थत्वाद्, दृष्टसमयो निर्णीतानेकान्ततत्त्वः, सत्यान्वाऽलीकान्वा न विभजते, अपि तु प्रमाणावस्थायां सापेक्षतया स्यादस्त्येव द्रव्यार्थत इत्यादिरीत्या नयविषयं विभजेतेत्यर्थः । तस्मान्नयप्रमाणात्मकमेकरूपमेवात्मस्वरूपं व्यवस्थितम् ।
--: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायाम् स्तबक-७ गाथा १० तदिदमुक्तम् [सम्मतौ] -
"णिययवयणिज्जसञ्चा सव्वणया परविआलणे मोहा ।
ते उण ण दिट्ठसमओ विभयइ सञ्चे व अलिए वा ।।" १/२८ ।। अस्यार्थः-निजकवचनीये स्वविषये परिच्छेद्ये सत्याः सम्यग्ज्ञानरूपाः सर्व एव नयाः सङ्ग्रहादयः, तद्वति तदवगाहित्वात् । परविचालने परविषयोत्खनने मोहा मुह्यन्तीति मोहा असमर्थाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात्, तदभावे स्वविषयस्याप्यव्यवस्थितेः, मिथो नान्तरीयकत्वात् । अतः परविषयस्याभावे स्वविषयस्याप्यसत्त्वात् तत्प्रत्ययस्य मिथ्यात्वमेवेत्यवधारयन दृष्टसमयो ज्ञातानेकान्तः पुनस्तान् नयान् न विभजते सत्यानलीकान् वा, किन्त्वितरनयविषयसव्यपेक्षतया ‘अस्त्येव द्रव्यार्थतः' इत्येवं भजनया स्वनयाभिप्रेतमर्थं सत्यमेवावधारयति, यद् तत्र यदपेक्षयास्ति तस्य तत्र तदपेक्षया ग्राहकत्वेनैव नयप्रामाण्यात् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org