________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२८
यत्रार्थः सर्वस्यैव परमाणुसमूहपरिणामोभयकृतत्वेऽपि विकल्पाभिधानं लौकिकव्यवहारापेक्षया, ते रत्नादयः, तदेवावल्यादिकमेव, तद्दध्यादिकं न तदेव न क्षीरादिकमेवेति, नियमेन मिथ्यात्वम्, सत्कार्यवादे कारणव्यापारवैफल्यप्रसङ्गात्, असत्कार्यवादे च क्षीरादिकमेव दध्यादित्वेन परिणतमिति व्यवहारविलोपप्रसङ्गात्, सदसत्कार्याभ्युपगमे च तिर्यक्प्रचयेनैवोर्ध्वताप्रचयेनापि सामूहिकव्यवहारक्षमकार्यसम्भवादात्मद्रव्यानुस्यूतनयप्रमाणात्मकचैतन्यमप्रत्यूहमिति भावः । [ स्वे स्वेऽशे सत्यानामपि नयानां परांशविचालने मिथ्यात्वात् समयज्ञः
सापेक्षावधारणं करोतीति वर्णनम् ] अत एकान्तरूपस्य वस्तुनोऽभावात् सर्वेऽपि नयाः स्वविषयपरिच्छेदसमर्था अपि इतरनयविषयव्यवच्छेदेन स्वविषये वर्तमाना मिथ्यात्वं प्रतिपद्यन्त इत्युपसंहरन्नाह
णिययवयणिज्जसञ्चा सब्बनया परवियालणे मोहा ।।
ते उण ण दिट्ठसमओ विभयइ सच्चे व अलिए वा ।।२८।। निजकवचनीये स्वांशे परिच्छेद्ये सत्याः सम्यग्ज्ञानरूपाः सर्व एव नयाः संग्रहादयः परविचालने परविषयोत्खनने मोहाः मुह्यन्तीति मोहा मिथ्याप्रत्ययाः परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात् तदभावे स्वविषयस्याप्यव्यवस्थितेः ततष्टा परविषयस्याभावे स्वविषयस्याप्यसत्त्वात् तत्प्रत्ययस्य मिथ्यात्वमेव तद्व्यतिरिक्तग्राहकप्रमाणस्य चाभावात् तस्मात् तानेव नयान् पुनः शब्दस्यावधारणार्थत्वात् न इति प्रतिषेधो विभजनक्रियायाः दृष्टः समयः सिद्धान्तवाच्यमनेकान्तात्मकं वस्तुतत्त्वं येन पुंसा स तथा स न विभजते सत्येतरतयास्वेतरविषयमवधारयमाणोऽपि तथा तान् न विभजते अपि त्वितरनयविषयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयतीति यावत् । 'ग्राह्यसत्यासत्याभ्यां ग्राहकसत्यासत्ये' इत्येवमभिधानम् तच दृष्टाऽनेकान्ततत्त्वस्य विभजनम् ‘स्यादस्त्येव द्रव्यार्थतः' इत्येवंरूपम् ।।२८ ।। [S.T.P.429]
1-अदिट्ठसमओ (गुरु. विनि., द्वाद. नय.) | _Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org