________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - २७
इतरथा उक्तप्रकारादन्यथा समूहे रत्नानां सिद्धो निष्पन्नः परिणामकृतो वा मण्यादिष्वावल्यादिः क्षीरादिषु दध्यादिर्वा यो यत्र अर्थः ते मण्यादय आवल्यादि कार्यं क्षीरं वा दध्यादिकम् तत्र तत्सद्भावात् तस्य तत्परिणामरूपत्वात् । 'समूहसिद्ध : ' ' परिणामकृता वा ' इति द्वयोरुपादानं लौकिकव्यवहारापेक्षया । परमार्थतस्तु परमाणुसमूहपरिणामात्मकत्वात् सर्व एव समूहकृतः परिणामकृतो वेति न भेदः । [S.T.P. 423]
५२
क्षणिकवद् एकान्ताक्षणिकेष्वप्यर्थक्रियालक्षणं सत्त्वं पूर्वोपदर्शितन्यायेन व्यावृत्तम् सत्तासम्बन्धलक्षणस्य च सत्त्वस्यातिव्याप्तित्त्वाऽसम्भवादिदोषदुष्टत्वात् असत्त्वमित्येकान्ताऽक्षणिका अप्यसन्तो भावा इत्युत्पाद - व्यय - ध्रौव्यलक्षणमेव भावानां सत्त्वमभ्युपगन्तव्यमिति नैकान्ततः कारणेषु कार्यमसदिति न तत् इति पक्षो मिथ्यात्वमिति स्थितम् ।
ब्रह्माद्वैतवादस्यापि प्रागेव प्रतिषेधः कृत इति तदेव वा इति अयमपि पक्षो मिथ्यात्वम् । ततः कारणे परिणामिनि वा कार्यम् परिणामो वा सदेव तावेव तावसदेव वा तत् तत्रेति न कारणमेव कार्यम् परिणामी वा परिणामः । न कार्यम् नापि कारणम् अपि तु द्रव्यमात्रं तत्त्वमिति तदेव वेति नियमेन एकान्ताभ्युपगमे सर्व एवैते मिथ्यावादा उक्तन्यायेन नियमेन मिथ्यात्वम् इत्यभिधानात् कथञ्चिदभ्युपगमे सम्यग्वादा ऐवेते इत्युक्तं भवति यत उत्पाद-व्यय- ध्रौव्यात्मकत्वे वस्तुनः स्थिते तद् वस्तु तत्तदपेक्षया कार्यम् अकार्यं च, कारणम् अकारणं च, कारणे कार्यं सच्च असच कारणं कार्यकाले विनाशवत् अविनाशवञ्च तथैव प्रतीतेरन्यथा चाऽप्रतीतेः ।।२७।। [S. T.P. 429]
-: अनेकान्तव्यवस्थायां :व्यवहारनयस्वरूपवर्णने, पत्र ३०
इति नानाविधाभिप्रायवदेकान्तवादिमते दृष्टान्तस्य साध्यसमतेत्यत आह [सम्मतौ ]
“ इहरा समूहसिद्धो, परिणामकओव्व जो जहिं अत्थो ।
तं तं तं - त्ति नियमेण मिच्छतं ।। १/२७ ।।”
ण
—
इतरथोक्तप्रकारानभ्युपगमे, समूहसिद्धो रत्नावल्यादिः परिणामकृतो वा क्षीरादिषु दध्यादिर्यः,
1- च (संमति.) । 2- चेव व त्ति ( संमति ) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org