________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२७
.. -: अनेकान्तव्यवस्थायां :
- व्यवहारनयस्वरूपवर्णने, पत्र-३० “लोइयपरिच्छयसुहो, णिच्छयवयणपडिवत्तिमग्गो य ।
अह पण्णवणाविसओ त्ति, तेण वीसत्थमुवणीओ ।। १/२६ ।।” [सम्मतौ] लौकिकपरीक्षकाणां व्युत्पत्तिविकलतद्युक्तप्राणिनां सुखः सुखप्रतिपत्त्युपायः, निष्टायवचनस्यैकानेकात्मकनिष्टायवाक्यस्य प्रतिपत्तिमार्गः प्रामाण्यप्रदर्शकः, अथेत्यवधारणे, प्रज्ञापनाविषयः प्रकृतनिदर्शनवाक्यविषयो रत्नावलीदृष्टान्त इति, तेन कारणेन, विश्वस्तं निःशङ्क यथा ज्ञायते तथा, ज्ञापयितुमिति शेषः, उपनीत उपदर्शितः । न चावल्यवस्थातः प्रागुत्तरकाले च रत्नानां नियतोपलम्भात्प्रमाणावस्थायाप्टा प्रागुत्तरकालं नयानां तदभावादुदाहरणवैषम्यमिति वाच्यम् । प्रमाणस्यैकानेकात्मकोपपत्तिमात्रार्थमावल्यवस्थोदाहरणोपादानात्, सर्वथासाम्ये दृष्टान्तदाान्तिकभावानुपपत्तेः । रत्नादिकारणेष्वावल्यादिकार्यं सदेवेति साङ्ख्यः, तेषामेवानेन रूपेण व्यवस्थितत्वात्तदव्यतिरिक्तं विकारमात्रं कार्यं परिणमत एवेति साङ्ख्यविशेषः । न खलु कार्यं कारणे प्रागुत्पत्तेर्विद्यते, न वा कारणं कार्यरूपेण परिणमते, किन्तु तत्र पृथग्भूतमेव कार्यं सामग्रीत उत्पद्यते इति वैशेषिकादयः । न कार्यं कारणं वास्ति द्रव्यमात्रमेव तत्त्वमित्यपरे ।। - [दृष्टान्तस्य साध्यसमतां वदतामेकान्तवादिनां निरासाय पञ्चानां तदभिप्रायाणां निर्देशः]
(१) “रत्नादिकारणेष्वावल्यादिकार्यं सदेव” [ ] इति साङ्ख्यः । (२) “तेषामेवानेन रूपेण व्यवस्थितत्वात् तदव्यतिरिक्तं विकारमात्रं कार्यं त एव” [ ] इति साङ्ख्यविशेष एव ।
(३-४) “न कार्यं कारणे विद्यते इति तेभ्यस्तत् पृथग्भूतम् नहि कारणमेव कार्यरूपेण व्यवतिष्ठते परिणमते वा” [ ] इति वैशेषिकादयः । (५) “न च कार्यम् कारणं वास्ति द्रव्यमात्रमेव तत्त्वम्” [ ] इत्यपरः । एवंभूताभिप्रायवन्त एकान्तवादिनो दृष्टान्तस्य साध्यसमतां मन्यन्ते तान् प्रत्याह
इहरा समूहसिद्धो परिणामकओ व्व जो जहिं अत्थो ।
ते तं च ण तं तं चेव व त्ति नियमेण मिच्छत्तं ।।२७।। 1-व (अने. व्य.) । 2-चेव त्ति (अने. व्य.) ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org