SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड -१, गाथा - २६ यथा पुनस्त एव मणयो यथागुणविशेषपरिपाट्या प्रतिबद्धा रत्नावलीति भण्यन्ते, प्रत्येकाभिधानानि च त्यजन्ति रत्नानुविद्धतया रत्नावल्यास्तदनुविद्धतया च रत्नानां प्रतीतेः, रत्नीयसन्निवेशविशेषस्य तद्विशिष्टरत्नानां वा रत्नावलीशब्दवाच्यत्वाद्विशिष्टानामविशिष्टवाचकशब्दावाच्यत्वाद्विशिष्टाविशिष्टयोः कथञ्चिद्भेदस्य प्रातीतिकत्वात् । ५० “ तह सव्वे णयवाया, जहाणुरूवविणउत्तवत्तव्वा । सम्मदंसणस, लहंति ण विसेससण्णाओ ।। १/२५ ।।” तथा सर्वे नवादा यथानुरूपविनियुक्तवक्तव्याः, यथेति वीप्सार्थे, यद् यदनुरूपं तत्र तत्र विनियुक्तं वक्तव्यमुपचारात्तद्वाचकः शब्दो येषां ते तथा, सम्यग्दर्शनं प्रमाणमित्याख्यां लभन्ते, न विशेषसंज्ञाः पृथग्भूताभिधानानि, अजहद्वृत्त्यैकोपयोगत्वविशिष्टसाकाङ्क्षसकलनयवाक्यजनितनयज्ञानानां तादृशनयज्ञानीयाऽजहद्वृत्त्यैकोपयोगस्य वा प्रमाणशब्दवाच्यत्वाद्विशिष्टनयात्मकस्यापि प्रमाणचैतन्यस्य शुद्धनयशब्दवाच्यत्वात् नन्वग्रहादिचतुष्टयात्मकमतिज्ञानोपयोगवत्साकाङ्क्षसकलनयवाक्यजनितनयप्रमाणात्मकचैतन्यस्याध्यक्षसिद्धत्वात्तत्र रत्नावलीदृष्टान्तोपादानं व्यर्थमिति चेत्, न, एकानेकात्मकोपयोगे स्वसंवेदनसिद्धेऽपि वादिविप्रतिपत्तिजसंशयनिरासेन निष्टायदाढयर्थं तदुपादनात् । [ दृष्टान्तोपन्यासप्रयोजकानां तद्गुणानां परिगणनम् ] दृष्टान्तगुणप्रतिपादनायाहलोइयपरिच्छयसुहो निच्छयवयणपडिवत्तिमग्गो य । अह पण्णवणाविसउत्ति तेण वीसत्थमुवणीओ ।। २६ ।। व्युत्पत्तिविकल-तद्युक्तप्राणिसमूहसुखग्राह्यत्वम् मजनकत्वं च अथ इत्यवधारणार्थः अनन्तधर्मात्मकवस्तुप्ररूपकवाक्यविषयत्वं दृष्टान्तस्यैव । एतैः कारणैः शङ्काव्यवच्छेदेन अयमुपदर्शित इति गाथातात्पर्यार्थः । एकानेकात्मकभावविषयवचोऽवग न चावल्यवस्थायाः प्राग् उत्तरकालं च रत्नानां पृथगुपलम्भात् इह च सर्वदा तथोपलम्भाभावाद् विषममुदाहरणमिति वक्तव्यम्, आवल्यवस्थाया उदाहरणत्वेनोपन्यासात् । न च दृष्टान्तदान्तिकयोः सर्वथा साम्यम् तत्र तद्भावानुपपत्तेः । । २६ । । [S. T.P. 422] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy