________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२४-२५
-: अनेकान्तव्यवस्थायां :
व्यवहारनयस्वरूपवर्णने, पत्र-२९ अत्रेदं मनाग्मीमांसामहे-ननु विशिष्टैकाध्यवसायस्य समुदायार्थत्वे द्वित्वविशिष्टावग्रहादिजनितघटपटोभयसमूहालम्बनवत्सकलनयार्थसमूहावम्बनमेकं प्रमाणज्ञानं प्राप्नोति, तञ्चायुक्तम्, क्रमिकनयवाक्यैः समूहालम्बनैकप्रमाणज्ञानजननायोगात्, सकलनयार्थवाचकस्य च वाक्यस्याप्येकस्य सप्तभङ्ग्या निषेत्स्यमानत्वात्, न च परेषामवयववाक्यार्थज्ञानजन्यन्यायवाक्यार्थज्ञानवदस्माकमपि क्रमिकनयवाक्यार्थज्ञानजन्यमहावाक्यार्थज्ञानरूपप्रमाणात्मकैकाध्यवसायोपपत्तिरिति वाच्यम् । न्यायवाक्यस्थलेऽपि प्रतीत्यसमुत्पादेनैकैकजनितखण्डवाक्यार्थज्ञानसमुदायस्यैव महावाक्यार्थज्ञानत्वेनास्माभिरभ्युपगमात्, शबलाध्यवसायान्यथानुपपत्त्या परमतस्यायुक्तत्वात्, अन्यथाङ्गुलिद्वयसंयोगस्थानीयोभयवादारम्भप्रसङ्गाच्च । किं चेयं कल्पना रत्नावलीदृष्टान्तेन नयप्रमाणात्मकैकचैतन्योपपादकसम्मतिवचनविरुद्धत्वादेवानुपादेया । एवं हि तत् [सम्मतौ] -
"जहऽणेगलक्खणगुणा, वेरुलियाई मणी विसंजुत्ता ।
रयणावलिववएस, ण लहंति महग्घमुल्लावि ।। १/२२ ।।" यथानेकप्रकारा विषघातहेतुत्वादीनि लक्षणानि नीलत्वादयष्टा गुणा येषां ते वैडूर्यादयो मणयः पृथग्भूता रत्नावलीव्यपदेशं न लभन्ते महार्थमूल्या अपि ।
“तह णिययवायसुविणिच्छिया वि अण्णुण्णपक्खणिरवेक्खा ।
सम्मइंसणसई, सव्वे वि णया ण पाविति ।। १-२३ ।।" तथा प्रमाणावस्थायामितरसव्यपेक्षस्वविषयपरिच्छेदकाले वा स्वविषयपरिच्छेदकत्वेन सुविनिष्टिाता अप्यन्योन्यनिरपेक्षाः प्रमाणमित्याख्यां सर्वेऽपि नया न प्राप्नुवन्ति, निजे वा (च इतर) निरपेक्षसामान्यादिवादे सुविनिष्टिाता अपि हेतुप्रदर्शनकुशला अपि, अन्योन्यपक्षनिरपेक्षत्वात्सम्यग्दर्शनशब्दं सुनया इत्येवं रूपं सर्वेऽपि सङ्ग्रहादयो नया न प्राप्नुवन्ति ।।
“जह पुण ते चेव मणी, जहागुणविसेसभागपडिबद्धा । रयणावलित्ति भण्णइ, जहेंति पाडेक्कसण्णाओ ।। १/२४ ।।"
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org