________________
४८
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२४-२५
जह पुण ते चेव मणी जहा गुणविसेसभागपडिबद्धा । 'रयणावलि'त्ति भण्णइ जहंति पाडिक्कसण्णाउ ।।२४।। तह सव्वे णयवाया जहाणुरूवविणिउत्तवत्तव्वा ।
सम्मइंसणसदं लहन्ति ण विसेससण्णाओ ।।२५।। यथा अनेकप्रकारा विषविघातहेतुत्वादीनि लक्षणानि नीलत्वादयष्टा गुणा येषां ते वैडूर्यादयो मणयः पृथग्भूता रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि ।।२२ ।।
तथा प्रमाणावस्थायाम् इतरसव्यपेक्षस्वविषयपरिच्छेदकाले वा स्वविषयपरिच्छेदकत्वेन सुनिष्टिाता अपि अन्योन्यपक्षनिरपेक्षाः ‘प्रमाणम्' इत्याख्यां सर्वेऽपि नया न प्राप्नुवन्ति निजे च इतरनिरपेक्षसामान्यादिवादे सुविनिष्टिाता हेतुप्रदर्शनकुशला अन्योन्यपक्षनिरपेक्षत्वात् सम्यग्दर्शनशब्दं ‘सुनयाः' इत्येवंरूपं सर्वेऽपि सङ्ग्रहादयो नया न प्राप्नुवन्ति ।।२३ ।।
यदा पुनस्त एव मणयो यथा गुणविशेषपरिपाट्या प्रतिबद्धाः 'रत्नावलि' इति आख्यामासादयन्ति प्रत्येकाभिधानानि च त्यजन्ति रत्नानुविद्धतया रत्नावल्यास्तदनुविद्धतया च रत्नानां प्रतीतेः 'रत्नावली' इति तत्र व्यपदेशः न पुनः प्रत्येकाभिधानम् ।।२४ ।।
तथा सर्वे नयवादा यथानुरूपविनियुक्तवक्तव्या इति यथा इति वीप्सार्थे अनु इति सादृश्ये रूपम् इति स्वभावे तेनानुरूपमित्यव्ययीभावः पुनर्यथाशब्देन स एव “यथाऽसादृश्ये" (पाणि० अ० २ पा० १ सू० ७ सिद्धान्तकौ० अं० ६६१ पृ० १६३) इत्यनेन । यद् यदनुरूपं तत्र विनियुक्तं वक्तव्यम् उपचारात् तद्वाचकः शब्दो येषां ते तथा यथानुरूपद्रव्यध्रौव्यादिषु प्रमाणात्मकत्वेन व्यवस्थिताः सम्यग्दर्शनशब्दं ‘प्रमाणम्' इत्याख्यां लभन्ते न विशेषसंज्ञाः पृथग्भूताभिधानानि एकानेकात्मकत्वेन चैतन्यप्रतिपत्तेरन्यथा चाप्रतिपत्तेरिति । ननु नयप्रमाणात्मकचैतन्यस्याध्यक्षसिद्धत्वेन ‘रत्नावलि' इति दृष्टान्तोपादानं व्यर्थम्, न; अध्यक्षसिद्धमप्यनेकान्तमनभ्युपगच्छन्तं प्रति व्यवहारसाधनाय दृष्टान्तोपादानस्य साफल्यात् । प्रवर्तितष्टा तेनापि तत्रानैकान्तव्यवहारः ।।२५ । । [S.T.P. 421]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org