SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-२२-२३ xia प्रमाणं समस्तवस्तुस्वरूपपरिच्छेदात्मकं मत्यादि नयास्तु एकांशावलम्बिन इत्यतो भिन्नविषयता, प्रत्यक्षपरोक्षवत् । एतदुक्तं भवति-सर्वनयांशावलम्बि ज्ञानं प्रमाणम्, यत् तु ज्ञानमनेकधर्मात्मकं सद्वस्तु एकधर्मावधारणेनावच्छिनत्त्येवमात्मकमेवैतदिति तन्नया इति कथ्यन्ते, अतष्टा प्रमाणं सम्यग्ज्ञानम्, नयास्तु मिथ्याज्ञानम्, यत आह- “एवं सव्वेवि नया मिच्छादिट्ठी [सम्मतौ-१/२१] ।" इत्यादि । -: आचाराङ्गसूत्रे :पू.आ. शीलाङ्काचार्यकृतटीकायाम्, अ. १, उ. ७, सू. ६१ तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम् [सम्मतौ] - “एवं सव्वेवि णया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोण्णणिस्सिया पुण हवंत ते चेव सम्मत्तं ।।१/२१ ।।" तस्मादुभयं परस्परसापेक्षं मोक्षप्राप्तये अलम्, न प्रत्येकं ज्ञानं चरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितम् । [ प्रत्येकं नयेषु मिथ्यात्वेऽपि समुदितेषु सम्यक्त्वस्य रत्नावलीदृष्टान्तेन समर्थनम् ] न च समुदायाभावे नया एव परस्परव्यावृत्तस्वरूपा इति न क्वचित् सम्यक्त्वम्, नयप्रमाणात्मकैकचैतन्यप्रतिपत्तेः रत्नावलीवत् इत्येतदाह- [S.T.P.420] 'यद्वा यत् प्रत्येकं नयेषु न सम्यक्त्वम् तत् तेषां समुदायेऽपि न भवति, यथा सिकतासु प्रत्येकमभवत् तैलं तासां समुदायेऽपि न भवति' इत्यत्र हेतोरनैकान्तिकताप्रतिपादनार्थमाह जहऽणेयलक्खण. इत्यादि जहऽणेयलक्खणगुणा वेरुलियाई मणी विसंजुत्ता । रयणावलिववएसं न लहंति महग्घमुल्ला वि ।।२२।। तह णिययवायसुविणिच्छिया वि अण्णोण्णपक्खणिरवेक्खा । सम्मइंसणसदं सव्वे वि णया ण पावेंति ।।२३।। 1-तम्हा (संमति.) | 2-सम्मत्तसब्भावा (संमति.) । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy