________________
४६
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२१
व्यवच्छेदकत्वम्, तदेव चान्योन्यनिश्रितत्वं गीयते । इदमेव च प्रवृत्तिनिमित्तीकृत्य तत्र सम्यक्त्वपदं प्रवर्तते । तदिदमुक्तम् [सम्मतौ] -
“तम्हा सव्वे वि णया 'मिच्छट्ठिी सपक्खपडिबद्धा । अण्णोण्णणिस्सिआ उण हवंति सम्मत्तसब्भावा ।। १/२१ ।।” इति ।
-: तत्त्वार्थाधिगमसूत्रे :महामहोपाध्यायश्रीयशोविजयजीकृतविवरणे, अध्याय-१, सूत्र-६ अथ प्रमाणनययोर्ज्ञानात्मकत्वात्सामान्यविशेषात्मकवस्तुपरिच्छेदित्वाञ्च कः प्रतिविशेष इति चेत्, अत्र टीकाकृतः सर्वनयांशावलम्बिज्ञानं प्रमाणम् । अनेकधर्मात्मके वस्तुन्येकधर्मावधारणं च नयः । स च मिथ्या, द्वयोरेकत्वबुद्धिवत् । यदाह
एवं सव्वे वि णया, 'मिच्छट्ठिी सपक्खपडिवन्नात्ति ।' अपरे त्वाहुः- परस्परापेक्षा नैगमादयो नयाः, तैः परस्परापैक्षैर्यद् ज्ञानं समस्तवस्तुस्वरूपालम्बनं जन्यते तदनवगतवस्तुपरिच्छेदाभ्युपायत्वात् प्रमाणम्, ये पुनर्भेगमादयो निरपेक्षाः परस्परेण, ते नयाभासा इति । अत्र प्रथमपक्षे सर्वेषां धर्माणां सर्वावच्छेदेन धर्मिणि न पर्याप्तिः, किन्तु प्रत्येकमित्यनन्तधर्मात्मकेऽप्येकधर्मावधारणस्य द्वयोरेकत्वबुद्धिवन्नाप्रामाण्यम् ।
द्वितीयपक्षे च सकलनयघटितसप्तभङ्ग्यात्ममहावाक्यैकदेशस्य नयत्वसिद्धावप्युदासीनतयाऽसङ्ग्रह इति सप्तधर्मात्मकत्वबोधकतापर्याप्त्यधिकरणं वाक्यं प्रमाणम्, तदेकदेशबोधकतापर्याप्त्यधिकरणं तदितरादूषकं नयः, तदितरदूषकं तु दुर्नय इत्ययमेव लक्षणविभागो युक्तः ।।
- तत्त्वार्थाधिगमसूत्रे :___ पू. सिद्धसेनगणिकृतटीकायाम्, अध्याय-१, सूत्र-७ ननु च प्रमाणमपि सामान्यविशेषात्मकवस्तुपरिच्छेद्येव, नया अपि चैवंविधविषयोपनिपानित एवेति नास्ति कष्टिाद् विशेषः, ज्ञानात्मकत्वाद्धि नया न भेदेनोपादेयाः प्रमाणादिति, असत्या एव नया इति [चेदतो] हेयतया न्याय्यमुपादानमित्येतदपि न, यतो वक्ष्यति– “न विप्रतिपत्तयोऽर्थाध्यवसाया” इति [१-३५] तथा “निययवयणिजसव्वा" [सम्मतौ-१/२८] इत्यादि । उच्यते-प्रमाणनयानामयं भेदः,
1-मिच्छादिट्ठी (संमति.) । 2-तम्हा (संमति.) । 3-सपक्खपडिबद्धा (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org