________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२१
४५
परित्यागेन व्यवस्थिताः पुनर् इति त एव सम्यक्त्वस्य यथावस्थितवस्तुप्रत्ययस्य सद्भावा भवन्तीति न बन्धाद्यनुपपत्तिः ।।२१।। [S.T.P. 419]
-: अनेकान्तव्यवस्थायां :
व्यवहारनयस्वरूपवर्णने, पत्र २९ नन्वेवं सर्वेऽपि नयवादा मिथ्या, स्वपक्षेणैव प्रतिहतत्वाञ्चौरवाक्यवद्' इत्यनुमानात्सर्वेषामेव नयानां मिथ्यादृष्टित्वे तत्समुदायेऽपि सम्यक्त्वं न स्यादिति चेत्, न अन्योन्यनिश्रितत्वेन समुदाये सम्यक्त्वसम्भवात् । आह च [सम्मतौ] -
"तम्हा सव्वे वि णया, 'मिच्छद्दिट्ठी संपक्खपडिवन्ना।
अण्णुण्णणिस्सिया पुण, हवंति सम्मत्तसब्भावा ।। १/२१ ।।” सम्यक्त्वस्य यथावस्थितप्रत्ययस्य, भावयन्तीति भावाः, सन्तो भावाः सद्भावाः अवन्ध्यकारणानीत्यर्थः । ज्ञानात्मकनयपक्षे सम्यक्त्वसद्भावाः सम्यक्त्वस्वभावा इति वार्थः । प्रत्येकं मिथ्यावधारणानामन्यनिश्रितसमुदायेपि कथं सम्यक्त्वम्, स्वगोचरापरित्यागेन तत्रापि तेषां विषयान्तराप्रवृत्तेरिति चेत् । अत्र सम्मतिवृत्तिकृतः । प्रत्येकमप्यपेक्षितेतरांशस्वविषयग्राहकतयैव सन्तो नयास्तद्व्यतिरिक्तरूपतया त्वसन्त इति सतां सत्समुदाये सम्यक्त्वे न कष्टिाद्दोषः । नन्वितरेतरविषयापरित्यागवृत्तीनां कथं ज्ञानानां समुदायः सम्भवति ? येन तत्र सम्यक्त्वमभ्युपगम्येत, अनुक्तोपालम्भ एषः । ह्येकदानेकज्ञानोत्पादतस्तेषां समुदायो विवक्षितः, अपि त्वपरित्यक्तेतररूपविषयाध्यवसाय एव समुदायः, अन्योन्यनिश्रिता इत्यनेनाप्ययमेवार्थः प्रतिपादितः । न हि द्रव्यार्थिक-पर्यायार्थिकाभ्यामत्यन्तपृथग्भूताभ्यामङ्गुलिद्वयसंयोगवदुभयवादोऽपरः प्रारब्धः इत्याहुः ।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायाम्, स्तबक-७, गाथा-१० ननु यद्येवं द्रव्यास्तिक-पर्यायास्तिकयोर्द्वयोरपि प्रत्येकं मिथ्यात्वं तदा सिकतासमुदाये तैलवत् तत्समुदायेऽपि सम्यक्त्वाभावात् कथं “प्रमाण-नयैरधिगमः” [त० सू०१-६] इति चेत् ? सत्यम्, न ह्यत्र दलप्रचयलक्षणः समुदाय उच्यते, पर्यायस्याऽदलत्वात्, इतरेतरविषयाऽपरित्यागवृत्तीनां ज्ञानानां समुदायाभावात्, क्वचित् क्रमिकतत्समुदायस्याऽव्यापकत्वाञ्च; किन्त्वितरनयविषयीकृतरूपाऽ1-मिच्छादिट्ठी (संमति.) । 2-सपक्खपडिबद्धा (संमति.)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org