________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२१
तच्छब्दवाच्ये भयोघो भीतिप्राचुर्यं तस्य दर्शनम् ‘सर्वं चतुर्गतिपर्यटनं दुःखात्मकम्' इति पर्यालोचनं मौढ्यं मूढता अनुपपद्यमानसंसारदुःखौघविषयत्वात् मिथ्याज्ञानं वन्ध्यासुतजनितबाधागोचरभीतिविषयपर्यालोचनवत् मिथ्याज्ञानपूर्विका च प्रवृत्तिर्विसंवादिन्येव, बन्धेन विना संसारनिवृत्ति-तत्सुखप्रार्थना च न भवत्येव तथा मोक्षष्टानुपपन्नः निरपराधपुरुषवत् अबद्धस्य मोक्षासम्भवात्, बन्धाभावष्टा योग-कषाययोः प्रकृति-स्थिति-अनुभाग-प्रदेशात्मकबन्धहेत्वोरेकान्तपक्षे विरुद्धत्वात् । न चैकरूपत्वात् ब्रह्मणो बन्धाद्यभावप्रेरणा न दोषाय, चेतनाऽचेतनादिभेदरूपतया जगतः प्रतिपत्तेः । न च भेदप्रतिपत्तिमिथ्या अविद्यानिर्मितत्वादिति वक्तव्यम अविद्यायाः प्रतिपत्तिजननविरोधात, अविरोधे विद्यारूपताप्राप्तेद्वैतप्राप्तिरिति । प्रतिविहितप्टाद्वैतवाद इति न पुनः प्रतन्यते ।।२० || [S.T.P. 419) [ सर्वेषामपि नयानामन्योऽन्याऽनिश्रितत्वे मिथ्यात्वम् अन्योन्यनिश्रित्वे
पुनः सम्यक्त्वमिति प्रतिपादनम् ] । तदेवमेकान्ताभ्युपगमे बन्धहेत्वाद्यनुपपत्तेरैहिकाऽऽमुष्मिकसर्वव्यवहारविलोपः इत्येकान्तव्यवस्थापकाः सर्वेऽपि मिथ्यादृष्टयो नयाः अन्योन्यविषयाऽपरित्यागवृत्तयस्तु त एव सम्यक्त्वं प्रतिपद्यन्त इत्युपसंहरन्नाह
तम्हा सव्वे वि णया 'मिच्छादिट्ठी सपक्खपडिबद्धा ।
अण्णोण्णणिस्सिआ उण हवंति सम्मत्तसब्भावा ।।२१।। यस्माद् एकान्तनित्याऽनित्यवस्त्वभ्युपगमो बन्धादिकारणयोग-कषायाभ्युपगमबाधितः तदभ्युपगमोऽपि नित्याद्येकान्ताभ्युपगमप्रतिहतः इत्येवंभूतपूर्वोत्तराभ्युपगमस्वरूपाः तस्माद् मिथ्यादृष्टयः सर्वेऽपि नयाः स्वपक्षप्रतिबद्धाः स्व आत्मीयः पक्षः अभ्युपगमस्तेन प्रतिबद्धाः प्रतिहता यतस्तत इति । नयज्ञानानां च मिथ्यात्वे तद्विषयस्य तदभिधानस्य च मिथ्यात्वमेव । तेनैवं प्रयोग:-मिथ्या सर्वनयवादाः, स्वपक्षेणैव प्रतिहतत्वात् चौरवाक्यवत् । अथ तेषां प्रत्येक मिथ्यात्वे बन्धाद्यनुपपत्तौ सम्यक्त्वानुपपत्तिः सर्वेत्रेत्याह-अन्योन्यनिश्रिताः परस्परा
1-एवं (तत्वा. विवरण, तत्वा. सिद्ध. टीका, आचा. टीका) 12. मिच्छद्दिट्ठी (अने. व्य., स्या. कल्प., तत्वा विवरण)। 3-सपखपडिवन्ना (अने.व्य., तत्वा. विवरण) | 4-ते चैव सम्मत्तं (आचा.टीका) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org