________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१९-२०
सुखदुःखसंप्रयोगः सम्यक् संगतो वा प्रयोगः संप्रयोगः अकल्पित इत्यर्थः न विद्यते नास्ति न घटत इत्यर्थः, क्व ? नित्यवादपक्षे नित्यवादाभ्युपगमे संप्रयोगो न विद्यते, कल्पितस्तु भवत्येव, यथाऽऽहुर्नित्यवादिनः- “प्रकृत्युपधानतः पुरुषस्य सुखदुःखे स्तः, स्फटिके रक्ततादिवद् बुद्धिप्रतिबिम्बाद्वाऽन्ये” इति, कल्पितत्वं चास्य आत्मनस्तत्त्वत एव तथापरिणतिमन्तरेण सुखाद्यभावाद् उपधानसन्निधावप्यन्धोपले रक्ततादिवत्, तदभ्युपगमे चाभ्युपगमक्षतिः, बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः सदैवैकस्वभावत्वात् सदैवैकरूपप्रतिबिम्बापत्तेः, स्वभावभेदाभ्युपगमे चानित्यत्वप्रसङ्ग इति । मा भूदनित्यैकान्तग्रह इत्यत आह- • एकान्तेन सर्वथा उत् प्राबल्येन छेदो विनाशः एकान्तोच्छेदः-निरन्वयो नाश इत्यर्थः, अस्मिंष्टा किम् ? सुखदुःखयोर्विकल्पनं सुखदुःखविकल्पनम्, अयुक्तम् अघटमानकम्, अयमत्र भावार्थ:- एकान्तोच्छेदेऽपि सुखाद्यनुभवितुस्तत्क्षण एव सर्वाथोच्छेदादहेतुकत्वात्तदुत्तरक्षणस्योत्पत्तिरपि न युज्यते, कुतः पुनस्तद्विकल्पनमिति गाथार्थः ।।
[ एकान्तपक्षे चात्मनि कर्मणो बन्ध-स्थितिकारणानुपपत्तिप्रकटनम् ] एकान्तपक्षे आत्मसुख-दुःखोपभोग-निर्वर्त्तकशरीरसम्बन्धहेत्वदृष्टोत्पादकनिमित्तानामप्यसम्भवं दर्शयन्नाह
कम्मं जोगनिमित्तं बज्झइ बन्ध-1 ध-ट्ठिई कसायवसा । अपरिणउच्छिण्णेसु य बंधट्ठिइकारणं णत्थि ।। १९ ।।
४३
कर्म अदृष्टम्, योगनिमित्तं मनो-वाक्कायव्यापारनिमित्तम्, बध्यते आदीयते, बध्यत इति बन्धः अदृष्टमेव तस्य स्थितिः कालान्तरफलदातृत्वेन आत्मन्यवस्थानम् सा कषायवशात् क्रोधादिसामर्थ्यात् एतदुभयमपि एकान्तवाद्यभ्युपगते आत्मचैतन्यलक्षणे भावे अपरिणते उत्सन्ने च बन्धस्थितिकारणं नास्ति ।। १९ ।। [S. T.P. 418]
[ एकान्तवादे बन्धाऽभावेन तन्मूलकसंसारनिवृत्त्यादेरनुपपत्तिप्रकाशनम् ) किञ्च, एकान्तवादिनां संसारनिवृत्तितत्सुखमुक्तिप्राप्त्यर्था प्रवृत्तिष्टासङ्गतेत्याहबंधम्मि अपूरन्ते संसारभओघदंसणं मोज्झं ।
बन्धं व विणा मोक्खसुहपत्थणा णत्थि मोक्खो य ।।२०।।
बन्धे वाऽसति संसारो जन्म मरणादिप्रबन्धस्तत्र तत्कारणे वा मिथ्यात्वादावुपचारात्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org