________________
४२
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१८
निरन्वयध्वंसलक्षणे संसृतिः सम्भवति गतेः भावान्तरापत्तेर्वा कथञ्चिद अन्वयिरूपमन्तरेण अयोगात् । अथैकस्य पूर्वाऽपरशरीराभ्यां वियोग-योगौ संसारः असावपि सदा अविकारिणि न सम्भवति, नित्यस्य पूर्वाऽपरशरीराभ्यां वियोग-योगानुपपत्तेः । निरन्वयक्षणध्वंसिनोऽप्येकाधिकरणत्वासम्भवात् न तल्लक्षणः संसारः । न च अमूर्तस्यात्मनः असर्वगतैकमनोऽभिष्वक्तशरीरेण विशिष्टवियोग-योगौ संसारः मनसोऽकर्तृत्वेन शरीरसम्बन्धस्यानुपपत्तेः । यो ह्यदृष्टस्य विधाता स तन्निवर्तितशरीरेण सह सम्बध्यते, न चैवं मनः, न च मनसः शरीरसम्बन्धेऽपि तत्कृतसुख-दुःखोपभोक्तृत्वम् आत्मनि तस्याभ्युगमात् तदर्थं च शरीरसम्बन्धोऽभ्युपगम्यत इति तत्सम्बन्धपरिकल्पनं मनसो व्यर्थम्, मनसि सुखदुःखोपभोक्तृत्वाभ्युपगमे वा आत्मकल्पनावैयर्थ्यम् मनस आत्मत्वसिद्धेः ।।१७।। [S.T.P.417] तथा -
सुह-दुक्खसम्पओगो ण जुज्जए णिञ्चवायपक्खम्मि ।
एगंतुच्छेयम्मि य सुह-दुक्खवियप्पणमजुत्तं ।।१८।। सुखेन अबाधास्वरूपेण, दुःखेन बाधनालक्षणेन, सम्प्रयोगः सम्बन्धः न युज्यते न घटते आत्मनो नित्यवादपक्षे द्रव्यास्तिकाभ्युपगमे सुखस्वभावस्य अविचलितरूपत्वात् सदा सुखरूपतैव आत्मनः न दुःखसम्प्रयोगः दुःखस्वभावत्वे तद्रूपतैव तत्त्वादेव । एकान्तोच्छेदे च पर्यायास्तिकपक्षे सुख-दुःखसम्प्रयोगो न युज्यत इति सम्बन्धः । तथा पक्षद्वयेऽपि सुखार्थम् दुःखवियोगार्थं च विशिष्टं कल्पनं यतनम्-'कल्पतेः' अत्र यतनार्थत्वात्-अयुक्तम् अघटमानकम् सुख-दुःखोपादानत्यागार्थप्रयत्नस्याप्ययुक्तत्वमुक्तन्यायात् । "संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ।” [ साङ्ख्ययका० ४० ] इति साङ्ख्यमतमपि निरस्तम् न्यायस्य सर्वैकान्तसाधारणत्वात् ।।१८ । । [S.T.P. 417]
दशवैकालिकनियुक्तौ
गाथा-६० सुहदुक्खसंपओगो न विजई निश्चवायपखंमि ।
एगंतुच्छेअंमि अ सुहदुक्खविगप्पणमजुत्तं ।। ६० ।। ___ 1-विज्जई (दश. निर्यु.) । 2-जुज्जए (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org