SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-१६-१७ ____४१ [ सङ्ग्रहादीनां मूलनयग्राह्यग्राहित्वान्नोभयवादप्रज्ञापकत्वमिति प्रदर्शनम् ] ननु सङ्ग्रहादिनयसद्भावात् कथं तद्व्यतिरिक्तनयान्तराभाव; ? सत्यम्, सन्ति सङ्ग्रहादयः किन्तु तद्विषयव्यतिरिक्तविषयान्तराभावतस्तद्वितयविषयास्तेऽपि तद्रूषणेनैव दूषिताः यतो न मूलच्छेदे तच्छाखास्तदवस्थाः संभवन्तीत्याह सव्वणयसमूहम्मि वि णत्थि णओ उभयवायपण्णवओ । मूलणयाण उ आणं पत्तेयं विसेसियं बिंति ।।१६।। संग्रहादिसकलनयसमूहेऽपि नास्ति कष्टिाद् नय उभयवादप्ररूपकः यतः मूलनयाभ्यामेव यत् प्रतिज्ञातं वस्तु तदेव आश्रित्य प्रत्येकरूपाः संग्रहादयः पूर्वपूर्वनयाधिगतांशविशिष्टमंशान्तरमधिगच्छन्तीति न विषयान्तरगोचराः । अतो व्यवस्थितम् परस्परात्यागप्रवृत्तसामान्यविशेषविषयसङ्ग्रहाद्यात्मकनयद्वयाधिगम्यात्मकत्वात् वस्त्वप्युभयात्मकम् ।।१६।। [S.T.P. 416] [ नित्यानित्यैकान्तपक्षद्वयेऽप्यात्मनि संसारसुख-दुःखादेरनुपपत्तिप्रदर्शनम् ] न केवलं बाह्यघटादिवस्तु उभयात्मकं तथाविधप्रमाणग्राह्यत्वात् किन्त्वान्तरमपि हर्ष-शोकभय-करुणौदासीन्याद्यनेकाकारविवर्त्तात्मकैकचेतनास्वरूपं तदात्मकहर्षाद्यनेकविकारानेकात्मकं च स्वसंवेदनाध्यक्षप्रतीतम्, तस्य भेदाभेदैकान्तैकरूपताभ्युपगमे दृष्टाऽदृष्टविषयसुखदुःखसाधनस्वीकार-त्यागार्थप्रवृत्ति-निवृत्तिस्वरूपसकलव्यवहारोच्छेदप्रसक्तिरिति प्रतिपादयितुमाह ण य दवट्ठियपक्खे संसारो णेव पज्जवणयस्स । सासयवियत्तिवायी जम्हा उच्छेअवाईआ ।।१७।। द्रव्यार्थिक-पर्यायार्थिकनयद्वयाभिमते वस्तुनि न संसारः सम्भवति, शाश्वतव्यक्ति प्रतिक्षणान्यत्वेकान्तात्मकचैतन्यग्राहकविषयीकृतत्वात् पावकज्ञानविषयीकृते उदकवत् । तथाहि-संसारः संसृतिः सा चैकान्तनित्यस्य पूर्वावस्थाऽपरित्यागे सति न सम्भवति तत्परित्यागे नैव-गतेः भावान्तरापत्तेर्वा-संसृतेः सम्भवात् । नाप्युच्छेदे उत्पत्त्यनन्तर Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy