________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१४-१५
[उभयारब्धतृतीयनयाभावेऽपि द्वयोरेव नययोरन्योन्यसव्यपेक्षयोस्सम्यक्त्वप्रतिपादनम्] स्यादेतत् भवतु परस्परनिरपेक्षयोमिथ्यात्वम्, उभयनयारब्धस्त्वेकः सम्यग्दृष्टिभविष्यतीत्याह
ण य तइओ अत्थि णओ ण य सम्मत्तं ण तेसु पडिपुण्णं ।
जेण दुवे एगन्ता विभज्जमाणा अणेगन्तो ।।१४।। न च तृतीयः परस्परसापेक्षोभयग्राही अस्ति नयः कष्टिात् तथाभूतार्थस्यानेकान्तात्मकत्वात् तद्ग्राहिणः प्रत्ययस्य नयात्मकत्वानुपपत्तेः । न च सम्यक्त्वं न तयोः प्रतिपूर्ण प्रतिषेधद्वयेन प्रकृतार्थावगतेः । अशेषं हि प्रामाण्यं सापेक्षं गृह्यमाणयोरनयोरेवंविषययोर्व्यवस्थितं येन द्वावपि एकान्तरूपतया व्यवस्थितौ मिथ्यात्वनिबन्धनम् तत्परित्यागेनाऽन्वय-व्यतिरेको विशेषण परस्परात्यागरूपेण भज्यमानौ गृह्यमाणावनेकान्तो भवतीति सम्यक्त्वहेतुत्वमेतयोरिति ।।१४ । । [S.T.P.416] __ . [ निरपेक्षग्राहित्चे मूलनयवदुत्तरनयानामपि मिथ्यात्ववर्णनम् ]
एवं सापेक्षद्वयग्राहिणो नयत्वानुपपत्तेस्तृतीयनयाभावः प्रदर्शितः, निरपेक्षग्राहिणां तु मिथ्यात्वं दर्शयितुमाह
जह एए तह अण्णे पत्तेयं दुण्णया णया सव्वे ।
हंदि हु मूलणयाणं पण्णवणे वावडा ते वि ।।१५।। यथा एतौ निरपेक्षद्वयग्राहिणौ मूलनयौ मिथ्यादृष्टी तथा उभयवादरूपेण व्यवस्थितानामपि परस्परनिरपेक्षत्वस्य मिथ्यात्वनिबन्धनस्य तुल्यत्वात् प्रत्येकम् इतरानपेक्षा अन्येऽपि दुर्नयाः न च प्रकृतनयद्वयव्यतिरिक्तनयान्तरारब्धात्वादुभयवादस्य नयानामपि वैचित्र्यादन्यत्रारोपयितुमशक्यत्वात् तद्रूपस्यान्ये सम्यक्प्रत्यया भविष्यन्तीति वक्तव्यम्, यतः हंदि इत्येवं गृह्यतां हुः इति हेतौ मूलनयद्वयपरिच्छिन्नवस्तुन्येव व्यापृतास्तेऽपि तद्विषयव्यतिरिक्तविषयान्तराभावात् सर्वनयवादानां च सामान्यविशेषोभयैकान्तविषयत्वात् । तन्न नयान्तरसद्भावः यतः तदारब्धोभयवादे नयान्तरं भवेत् ।।१५।। [S.T.P.416]
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org