________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१३
-: शास्त्रवार्तासमुच्चये :- .
स्याद्वादकल्पलताटीकायाम्, स्तबक ७, गाथा ३ एतदुपपत्तेरेव स्थलान्तरमाह
पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः ।
अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ।। ३ ।। पयोव्रतः क्षीरभोजनव्रतः, न दध्यत्ति न दधि भुङ्क्ते । यदि च दनः पयस एकान्ताऽभेदः स्यात् तदा तस्य दधि भुञ्जतोऽपि न व्रतभङ्गः स्यात् । तथा, दधिव्रतः दधिभोजनव्रतः, न पयः दुग्धम् अत्ति । पयसो दध्न एकान्ताऽभेदे च भुञ्जतो न दधिभोजनव्रतभङ्गः स्यात् । ततो दधिपयसोः कथञ्चिद्भेदः । तथा अगोरसवतः आरनालादिभोजनव्रतः, उभे दुग्धदधिनी नात्ति इति गोरसभावेन द्वयोरभेदः, अन्यथा कृतगोरसपप्रत्याख्यानस्य दुग्धाद्येकैकभोजनेऽपि न व्रतभङ्गः स्यादिति । तस्मात् द्रव्यपर्यायोभयात्मकत्वात् त्रयात्मकम् उत्पाद-व्यय-ध्रौव्याऽपृथग्भूतं वस्तु । तथा च समयपरमार्थवेदिनः [सम्मतौ] -
दव्वं पजवविउअं दव्वविउत्ता य पजवा णत्थि ।
उप्पाय-ट्ठिइ-भङ्गा हंदि ! दवियलक्खणं एयं ।। १/१२ ।। इति । [स्वतन्त्राणामुत्पाद-व्यय-ध्रौव्याणां द्रव्यलक्षणत्वाभावात् प्रत्येकं नयद्वयस्य मिथ्यात्वकथनम्] एते च परस्परसव्यपेक्षा द्रव्यलक्षणम् न स्वतन्त्रा इति प्रदर्शनायाह
एए पुण संगहओ पाडिक्कमलक्खणं दुवेण्हं पि ।
तम्हा मिच्छद्दिट्ठी पत्तेयं दो वि मूलणया ।।१३।। एत्ते उत्पादादयः सङ्ग्रहतः शिबिकोद्वाहिपुरुषा इव परस्परस्वरूपोपादानेनैव लक्षणम् । प्रत्येकं एकका उत्पादादयो द्वयोरपि द्रव्यास्तिक-पर्यायास्तिकयोः अलक्षणम् उक्तवत् तथाभूतविषयाभावे तद्ग्राहकयोरपि तथाभूतयोरभावात् उत्पादादीनां च परस्परविविक्तरूपाणामसम्भवात् । तस्मातन्मिथ्यादृष्टि एव प्रत्येकं परस्परविविक्तौ द्वावपि एतौ द्रव्यार्थिक-पर्यायार्थिकस्वरूपौ मूलनयौ समस्तनयराशिकारणभूतौ ।।१३ । । [S.T.P.415]
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org