________________
३८
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१२
परिभाषाश्रयणादिति गृहाण । नन्वेवं शुद्धद्रव्यार्थिकपर्यायार्थिकयोरितरेतरविषयप्रतिक्षेपकत्वेन समुदितद्रव्यलक्षणाग्राहित्वेन मिथ्यादृष्टित्वमवान्तरतद्भेदानां च वैपरीत्येन सम्यग्दृष्टित्वं स्यादिति यथाश्रुतशुद्धाशुद्धविवेकानुपपत्तिरिति चेत् ? इदमित्थमेव जात्या शुद्धाशुद्धत्वैकान्तस्य वादिनैव प्रतिक्षिप्तत्वात्, यो नयोपयोगः स्वार्थे इतरनयार्थसंयोजनायां व्यापिपर्ति तस्य तावत्याऽपेक्षया सम्यग्दृष्टित्वस्य, यथाश्रुतार्थप्रवाहप्रवृत्तस्य तथोपयोगवैकल्येन मिथ्यादृष्टित्वस्य च सम्प्रदायसिद्धत्वात्, तदुक्तम् [सम्मतौ] -
"दव्वं पज्जवविउअंदव्वविजुत्ता य पज्जवा णत्थि । उप्पाय-ट्ठिइ-भंगा हंदि दविअलक्खणं एयं ।। एए पुण संगहओ पाडिक्कमलक्खणं दुविण्हं पि । तम्हा मिच्छद्दिट्ठि पत्तेयं दो वि मूलनया ।। ण य तइओ अत्थि णओ न य सम्मत्तं न तेसु पडिपन्नं । जेण दुवे एगन्ता विभज्जमाणा अणेगन्तो ।। जह एए तह अन्ने पत्तेयं दुन्नया नया सव्वे । हंदि हु मूलनयाणं पन्नवणे वावडा ते वि ।। सव्वणयसमूहम्मि वि णत्थि णओ उभयवायपण्णवओ । मूलनयाण उ आणं पत्तेयं विसेसि बिंति ।।" [१/१२ तः १६] त्ति
-: आचाराङ्गनिर्युक्तौ:
गाथा-१७० टीका तदेवं भेदाभेदोपपत्तिभिर्व्याकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषापत्तिदर्शनात्कथं गृह्णीमः ? आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि-गुणगुणिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्भेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि [सम्मतौ] -
दव्वं पज्जवविजुयं दव्वविउत्ता य पजवा णत्थि । उप्पायट्ठिइभंगा हंदि दवियलक्खणं एयं ।। १/१२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org