________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१२
३७
-: अनेकान्तव्यवस्थायां :
व्यवहारनयस्वरूपवर्णने, पत्र-२९ नन्वेवं सङ्ग्रहव्यवहारयोरवधारणांशे द्वयोरपि मिथ्यात्वं स्यात् सामान्यविशेषान्यतराभाववद्विशेष्यत्वाभाववत्यन्यतरस्मिँस्तदभाववद्विशेष्यकत्वावगाहित्वादिति चेत्, स्यादेव, उत्पादस्थितिभङ्गाः समुदिता हि द्रव्यलक्षणम्, न तु प्रत्येकम्, एकैकविनिर्मोकेण द्रव्याप्रतीतेरिति प्रत्येकलक्षण-ग्राहिणौ द्रव्यार्थिकपर्यायार्थिको मूलनयाविह हि मिथ्यादृष्टी, न चास्ति तृतीयः कष्टिान्नय इति, द्वयोर्मूलनययोरेव यदि परस्परात्यागरूपविशेषेण भज्यमानयोरेव सम्यक्त्वहेतुता, न तु निरपेक्षग्राहिणोः, तदा कैव प्रत्याशा निरपेक्षग्राहिणां मूलनयार्थप्रज्ञापनामात्रव्यापृतानां विशिष्टांशाधिगममात्रेण भेदभाजामुत्तरनयानां प्रामाण्ये इति । यद्वादी [सम्मतौ] -
“दव्यं पज्जवविजुयं, दव्वविजुत्ता य पजवा णत्थि । उप्पायट्ठिइभंगा, हंदि दवियलक्खणं एयं ।। एए पुण संगहओ, पाडिक्कमलक्खणं दुवेझंपि । तम्हा मिच्छट्ठिी, पत्तेयं दोवि मूलणया ।। ण य तइओ अत्थि णओ, ण य सम्मतं ण तेसु पडिपुण्णं । जेण दुवे एगंता, विभजमाणा अणेगंतो ।। जह एए तह अण्णे, पत्तेअं दुण्णया णया सव्वे । हंदि हु मूलणयाणं, पण्णवणे वावडा तेवि ।। सव्वणयसमूहम्मि वि, णत्थि णओ उभयवायपण्णवओ । मूलनयाण उ आणं, पत्तेयं विसेसियं बिंति ।।" [१/१२ तः १६]
-: नयोपदेशे :
गाथा-१७ इदं च शुद्धपर्यायास्तिकनयमतम्, तदवान्तरभेदास्तु यावदपष्टिामविकल्पनिर्वचनं द्रव्यार्थिकावान्तरभेदवत् न्यायसिद्धा नानाविधा अभ्युपगन्तव्याः । अथैवं पष्टिामविकल्पनिर्वचनतया माध्यमिकदर्शनप्रवर्तक एवम्भूत एव शुद्धपर्यायार्थिकः स्यात्, इष्यते च सूत्रोऽपि शुद्धपर्यायार्थिक इति कथमियं व्यवस्थेति चेत् ? क्षणिकविषयताव्यापकपर्यायविषयताशाली शुद्धपर्यायार्थिक इति
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org