________________
३६
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१२
पजाओ चिय वत्थु तचं दव्वं च तदुवयाराओ ।
पजवनयस्स जम्हा सामइयं तेण पज्जाओ ।। २६४५ ।। व्याख्या- यद् यस्माद् द्रव्यार्थिकनयस्तथ्यं सत्यं द्रव्यमेवेच्छति, गुणांस्तूपचारत एव मन्यते न तु सत्यान्; ततस्तस्मात् सामायिकगुणविशिष्ट उपसर्जनीभूतसामायिकादिगुणो मुख्यतया जीव एव तस्य द्रव्यार्थिकनयस्य सामायिकमिति । यस्मात् पर्यायार्थिकनयस्य मतेन पर्याय एव तथ्यं निरुपचरितं वस्तु, द्रव्यं पुनस्तेष्वेव पूर्वापरीभूतपर्यायेषूपचारतो व्यवह्रियते, न तु परमार्थतस्तदस्ति, तेषु पर्यायेषूपचारस्तदुपचारस्तस्मादिति समासः । तेन तस्मात् कारणात् पर्याय एवास्य मुख्यतया सामायिकम्, न जीवद्रव्यमिति ।। २६४४ - २६४५ ।। [अन्योन्यमुक्तयोर्द्रव्य-पर्याययो स्तित्वोक्तिपूर्वकमुत्पाद-व्यय-ध्रौव्याणां
द्रव्यलक्षणत्वेन वर्णनम् ] परस्परनिरपेक्षं चोभयनयप्रदर्शितं वस्तु प्रमाणाभावतो न सम्भवतीत्याह
दव्वं पज्जवविउयं दव्वविउत्ता य पज्जवा णत्थि ।
उप्पाय-ट्ठिइ-भंगा हंदि दवियलक्खणं एयं ।।१२।। द्रव्यं पर्यायवियुक्तं नास्ति मृत्पिण्ड-स्थास-कोश-कुशूलाद्यनुगतमृत्सामान्यप्रतीतेः । द्रव्यविरहिताष्टा पर्याया न सन्ति अनुगतैकाकारमृत्सामान्यानुविद्धतया मृत्पिण्ड-स्थास-कोशकुशूलादीनां विशेषाणां प्रतिपत्तेः । अतो द्रव्यार्थिकाभिमतं वस्तु पर्यायाक्रान्तमेव न तद्विविक्तम् पर्यायाभिमतमपि द्रव्यार्थानुषक्तं न तद्विकलम्, परस्परविविक्तयोः कदाचिदप्यप्रतिभासनात् । किंभूतं पुनर्द्रव्यमस्तीत्याह-उत्पाद-स्थिति-भङ्गा यथाव्यावर्णितस्वरूपाः परस्पराविनिर्भागवर्तिनः, हन्दि इत्युपप्रदर्शने; द्रव्यलक्षणं द्रव्यास्तित्वव्यवस्थापको धर्मः एतद् दृश्यताम्, यतः पूर्वोत्तरपर्यायपरित्यागोपादानात्मकैकान्वयप्रतिपत्तिस्तथाभूतद्रव्यसत्त्वं प्रतिपादयतीत्युत्पादव्यय-ध्रौव्यलक्षणं वस्त्वभ्युपगन्तव्यम् । एतञ्च त्रितयं परस्परानुविद्धम्, अन्यतमाभावे तदितरयोरप्यभावात् । [S.T.P.410]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org