________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-११
स्थितिस्वभावमेवेति मतम् । एतच्च नयद्वयस्याभिमतं वस्तु प्राक् प्रतिपादितमिति न पुनरुच्यते ।।११ || [S.T.P. 409]
-: विशेषावश्यकभाष्ये :
मलधारगच्छीयपू.आ.हेमचन्द्रसूरीकृतटीका अथ वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाहदव्वं गुणो त्ति भइयं सामइयं सव्वनयमयाधारं । तं दब्व-पज्जवद्वियनयमयमंगीकरेऊणं ।। २६४२ ।। इह सामायिकं सर्वनयमताधारं सर्वनयविचारविषय इत्यर्थः, ततस्तन्मतेन भाज्यं भजनीयं द्रव्यं गुणो वा भवति । ततस्तद् द्रव्यार्थिक-पर्यायास्तिकनयद्वयमतमङ्गीकृत्य विचार्यते । इति गाथापञ्चकार्थः ।। २६४२ ।। कथं विचार्यते ? इत्याह
जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं ।
सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो ।। २६४३ ।। जीव आत्मा गुणैः प्रतिपन्न आश्रितः, द्रव्यमेवार्थो यस्य न तु पर्यायाः स द्रव्यार्थिकस्तस्य द्रव्यार्थिकस्य नयस्य मतेन सामायिकम् । इदमुक्तं भवति- गुणाः खल्वौपचारिकत्वादसन्त एव, द्रव्यव्यतिरेकेण तेषामनुपलम्भात् । ततप्टा न्यग्भूतगुणग्रामो जीव एव मुख्यवृत्या सामायिकं न तु पर्याया इति द्रव्यार्थिकनयो मन्यते । आह- ननु रूपादयो गुणा यदि न सन्ति, तर्हि कथं लोकस्य द्रव्ये तत्प्रतिपत्तिः ? । उच्यते- भ्रान्तैवेयम्, । चित्रे निम्नोन्नतप्रतिपत्तिवत् । इत्यस्य नयस्याभिप्रायः । स एव सामायिकादिगुणः पर्यायार्थिकनयस्य परमार्थतोऽस्ति, न तु जीवद्रव्यम्, यस्माज्जीवस्यैष गुणः, जीव इति तत्पुरुषोऽयम्, स चोत्तरपदप्रधानः, यथा तैलस्य धारा तैलधारेति, न चात्र धारातिरिक्तं किमपि तैलमस्ति । एवं ज्ञानादिगुणातिरिक्तं जीवद्रव्यमपि नास्तीति पर्यायार्थिकनयाभिप्रायः । इति नियुक्तिगाथार्थः ।। २६४३ ।।
अत्र भाष्यम्
इच्छइ जं दव्वनओ दव्वं तञ्चमुवयारओ य गुणे । सामइयगुणविसिट्ठो तो जीवो तस्स सामइयं ।। २६४४ ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org