SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-११ पर्यायविनिर्मुक्तप्रकारताकस्य पर्यायनिष्ठोपसर्जनत्वाख्यविषयताकस्य वा द्रव्यार्थिकस्य तत्तर्कोपनीतस्वार्थविचारदशायामेव शुद्धत्वम्, पर्यायनयार्थान्तरभावाकाङ्क्षायां चाशुद्धत्वमिति विवेकः ।। १५ ।। -: शास्त्रवार्तासमुच्चये : स्याद्वादकल्पलताटीकायाम्, स्तबक ७, गाथा-११ तस्मात् पर्यायार्थिक उत्पाद-व्ययप्रतिभासे सत्यत्वमवगच्छति, ध्रौव्यप्रतिभासे त्वसत्यत्वम्, न तु तत्प्रतिभासमेव प्रतिक्षिपति, अनुभूयमानतद्विषयताऽतद्विषयताकत्वस्य व्यवस्थापयितुमशक्यत्वात् । न खलु सहस्रेणापि बाधकैः ‘इदं रजतम्' इति प्रतीते रङ्गत्वावलम्बनत्वं व्यवस्थापयितुं शक्यते । द्रव्यास्तिकोऽपि ध्रौव्यप्रतिभासे सत्यत्वमवगच्छति, उत्पाद-व्ययप्रतिभासे त्वसत्यत्वम् । तदुक्तम् [सम्मतौ] “दवट्ठियवत्तव्यं अवत्थु नियमेण होइ पजाए । तह पज्जववत्थु अवत्थुमेव दव्वट्टियणयस्स ।। १/१०।। उप्पजंति चयंति अ भावा निअमेण पजवनयस्स । दव्वट्ठियस्स सव्वं सया अणुप्पन्नमविणहूँ ।। १/११ ।।" इति । अयं च स्वविषयपक्षपातोऽयुक्तः, उभयप्रतिभासप्रामाण्यस्य तुल्ययोगक्षेमत्वादित्युक्तम् । ततष्टा त्र्यात्मकं वस्तु प्रमाणतः पर्यवसितमिति ।। ११ ।। [ निरपेक्षयद्वयमेकमेव वस्तु यथा यथा मन्यते तथा विभज्य वर्णनम् ] कल्पनाव्यवस्थापितपर्यायास्तिक-द्रव्यास्तिकयोरेवंलक्षणप्रदर्शितस्वरूपयोमिथ्यारूपताप्रतिपत्तिः सुकरा भविष्यतीत्याह उप्पज्जंति वियंति य भावा नियमेण पज्जवणयस्स । दव्वट्ठियस्स सव्वं सया अणुप्पन्नमविणटुं ।।११।। उत्पद्यन्ते प्रागभूत्वा भवन्ति विशेषेण निरन्वयरूपतया गच्छन्ति नाशमनुभवन्ति भावाः पदार्थाः नियमेन इत्यवधारणे पर्यायनयस्य मतेन प्रतिक्षणमुत्पाद-विनाशस्वभावा एव भावाः पर्यायनयस्याभिमताः । द्रव्यार्थिकस्य सर्वं वस्तु सदा अनुत्पन्नमविनष्टम आकालं 1-पज्जवणयस्स (संमति.) । 2-वियंति (संमति.) | 3-चयंति (स्या. कल्प.) _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy