________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२८
. -: गुरुतत्त्वविनिश्चये :
उल्लास-१ यदप्युक्तं “शुद्धष्टा निष्टायनयः” इति स एवाश्रयणीय इति तत्राह
सुद्धतं पुण दोण्ह वि, णियवत्तव्वाणुगाणमविसिटुं ।
सट्टाणे बलिआणं, जं भणियं संमईइ इमं ।। ४४ ।। सुद्धतं पुणत्ति । शुद्धत्वं पुनः द्वयोरपि निष्टायव्यवहारयोः निजवक्तव्यानुगयोः स्वाभिमततत्त्वानुसारिणोः स्वस्थाने स्वविषये बलिकयोः इतराप्रतिक्षेप्ययोरविशिष्टम्, “सव्वे वि होंति सुद्धा, णत्थि असुद्धो णओ उ सट्ठाणे ।” इति व्यवहारभाष्यवचनेनेतरापेक्षयाऽशुद्धस्यापि स्वापेक्षया शुद्धत्वात्, दीर्घत्वहस्वत्वयोरिव शुद्धत्वाशुद्धत्वयोरव्यवस्थितत्वात्, यद् भणितं सम्मतावेतन्महामतिना ।। ४४ ।।
णिययवयणिज्जसञ्चा, सव्वणया परविआलणे मोहा ।
ते पुण अदिट्ठसमओ, विभयइ सञ्चे व अलिए वा ।। ४५ ।। .. _ 'णियय'ति । निजकवचनीये सत्या अर्थप्रतिपादकत्वात् सर्वे नया नैगमादयः परस्य नयस्य विचारणे परेण नयेन विचालने- स्वार्थस्य परित्याजने वा 'मोघा' विफला असत्या इति यावत्, अन्यार्थाप्रतिपादकत्वादन्यनयप्रतिबन्धेन स्वार्थाप्रतिपादकत्वाद्वा । तान् नयान् पुनः अदृष्टसमयः' अज्ञातसिद्धान्तपरमार्थः विभजते एकान्तेन निष्टिानोति सत्यान् अलीकान् वा स्यात् । सत्यत्वा सत्यत्वप्रतिपादने तु दृष्टसमयतैवेति भावः ।। ४५ ।।।
___-: नयोपदेश: :स्वार्थनिष्टायकत्वरूपं नयप्रामाण्यसंशयेन विषयसंशयात् निष्टायस्यानिष्टायपरिणत्या न कथञ्चिदित्यत्रापि नयानामनेकान्त एवेति शिक्षयति
स्वार्थे सत्या परैना असत्या निखिला नयाः ।
विदुषां तत्र नैकान्त इति दृष्टं हि सम्मतौ ।। १० ।। नयामृत०-स्वार्थ इति । स्वार्थे स्वविषये, सत्याः निष्टाायकाः, परैः नयैः नूना अप्रामाण्याः शङ्काविषयीकृताः, असत्याः अनिष्टाायकाः, निखिला नयाः नैगमादयः, विदुषां सिद्धान्तव्युत्पन्नानाम्, 1-ण दिट्ठसमओ (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org