________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२८
तत्र नयप्रामाण्याऽप्रामाण्ययोः, नैकान्तः, वक्तुं युक्त इति शेषः, इति दृष्टं परीक्षितम्, हि सम्मतौ, अभियुक्तवचनसंवादप्रदर्शनमेतत्, तद्वचनं च
“णिययवयणिजसञ्चा, सव्वणया परविआलणे मोहा । ते पुण ण दिट्ठसमयो विभयइ सञ्चे य अलीए वा ।। १/२८ ।।" त्ति ।
-: द्वादशारनयचक्रे :
आरक-१
स एव व्यवहारनयाश्रयाल्लौकिको ब्रूते - को हि वादानामिति एकान्तवादानाम् अन्तं कर्तुं शक्रुयात्- उच्छेदं शक्रुयात् कर्तुमिति । किं कारणम् ? न हि साङ्ख्याभिहिताः सत् कारणे कार्यम्,
असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाञ्च सत् कार्यम् ।। [साङ्ख्यका० ९] इत्येवमादयो हेतवः, न वा वैशेषिकोक्ताः क्रियागुणव्यपदेशाभावादसत् [वै० सू० ९।१।१] इत्यादयः, 'क्षणिका घटादयः प्रत्ययायत्तजन्मत्वात्' इत्यादयो वा बौद्धोक्ताः परस्परेणोच्छेत्तुं शक्यन्ते, अभियुक्तबुद्ध्युत्कर्षपरम्पराया अदृष्टनिष्ठत्वात् । एतस्मिन्नर्थे ज्ञापकमाह-आह चेति, नाहमेव स्वमनीषिकया ब्रवीमि, किं तर्हि ? अन्येऽप्येवं ब्रुवते ।
णिययवयणिजसञ्चा सव्वणया परवियालणे मोहा ।
ते पुण अदिट्ठसमयो विभजइ सञ्चे व अलिए वा ।। [सम्मतौ १।२८] स्वविषयसत्यत्वादेवाविचाल्या इति तञ्चालने मोघाः । तेषामनेकान्तस्थितिस्वत्त्वानवबोधात 'सत्यमेव, असत्यमेव वा' इत्यदृष्टसमयस्तान् विभजते इत्याचार्यसिद्धसेनः ।
-: न्यायखण्डखाघे (महावीरस्तवे) :
_ विभाग-३, गाथा-४० नन्वेवमन्यव्यावृत्त्यप्रत्यायकत्वानिःस्वरूपत्वं नयस्य प्राप्तम्, तत्राह-नयस्य हि निजं स्वरूपं ताटस्थ्यमौदासीन्यमेव, कस्मात् स्वार्थेषु विचित्रेषु स्वविषयेषु, अयोगविरहस्यायोगव्यवच्छेदस्य, प्रतिपत्तिमात्रात्, तदिदमभिप्रेत्योक्तं भगवता सम्मतिकृता, 1-ण दिट्ठसमओ (संमति.)।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org.