________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२९-३०
५७
“णिययवयणिज्जसञ्चा सव्वणया परविआलणे मोहत्ति" एवं च नैयायिकादिनयाः स्वार्थायोगव्यवच्छेदप्रतिपादनमात्रेण तूष्णीन्तिष्ठन्तु, न तु नयान्तरखण्डनायापि प्रगल्भन्ताम्, तत्तर्कविचारप्रहारोपनिपाते केनान्तरा हस्तादानादित्युक्तं भवति ।।४० ।। [ सर्वस्यापि वस्तुनोऽभेदरूपेण द्रव्यार्थिकपरिच्छेद्यस्यैव भेदरूपेण पुनः
पर्यायार्थिकपरिच्छेद्यत्वाभिधानम् ] अतो नय-प्रमाणात्मकैकरूपताव्यवस्थितमात्मस्वरूपम् अनुगतव्यावृत्तात्मकम् उत्सर्गापवादरूपग्राह्यग्राहकात्मकत्वाद् व्यवतिष्ठत इत्यर्थप्रदर्शनायाह
दबट्ठियवत्तव्वं सव्वं सब्वेण णिञ्चमवियप्पं ।
आरद्धो य विभागो पज्जववत्तव्वमग्गो य ।।२९।। यत् किञ्चिद् द्रव्यार्थिकस्य संग्रहादेः सदादिरूपेण व्यवस्थितं वस्तु वक्तव्यं परिच्छेद्यं तत् सर्वं सर्वेण प्रकारेण नित्यं सर्वकालम् अविकल्पं निर्भेदम्, सर्वस्य सदसद्विशेषात्मकत्वात् तच्च भेदेन सम्पृक्तमिति दर्शयितुमाह-आरब्धष्टा विभागः स एवाविभागः सत्तारूपो यो द्रव्यादिनाऽऽकारेण, प्रस्तुतष्टा भेदः चशब्दस्य प्रक्रान्ताऽविभागानुकर्षणार्थत्वात् पर्यायवक्तव्यमार्गप्टा पर्यायास्तिकस्य यद् वक्तव्यं विशेषः तस्य मार्गः पन्था जातः-पर्यायार्थिकपरिच्छेद्यस्वभावो विशेषः सम्पन्न इति यावत् ।।२९ । । [S.T.P.429] [शब्दार्थगतत्वेन पर्यायस्य द्वैविध्यं प्रदर्श्य तस्य द्विविधस्यापि पुनर्भेदाभेदरूपेण विवेचनम्] एवं भेदाभेदरूपं वस्तूपदर्श्य भेदस्य पर्यायार्थिकविषयस्य द्वैविध्यमाह
सो उण समासओ चिय वंजणणिअओ य अत्थणिअओ य ।
अत्थगओ य अभिण्णो भइयव्वो वंजणवियप्पो ।।३०।। स पुनर्विभागः समासतः संक्षेपतो व्यञ्जननियतः शब्दनयनिबन्धनः अर्थनियतष्टा अर्थनयनिबन्धनष्टा । तत्र अर्थगतस्तु विभागः अभिन्नः सङ्ग्रह-व्यवहार-ऋजुसूत्रार्थप्रधाननयविषयोऽर्थपर्यायोऽभिन्नः असदद्रव्यातीतानागतव्यवच्छिन्नाभिन्नार्थपर्यायरूपत्वात् तद्विषया नया अपि ‘अर्थगतो विभागोऽभिन्नः' इत्युच्यते । भाज्यो व्यञ्जनविकल्प इति । विकल्पितः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org