________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ३१
शब्दपर्यायो भिन्नः अभिन्नष्टानेकाभिधान एकः एकाभिधानष्टौकः इति कृत्वा, समानलिङ्गसङ्ख्याकालादिरनेकशब्दो ‘घटः’‘कुटः’‘कुम्भः' इत्यादिक एकार्थ इति शब्दनयः । समभिरूढस्तु भिन्नाभिधेयौ घट- कुटशब्दौ भिन्नप्रवृत्तिनिमित्तत्वात्, रूप- रसादिशब्दवत् इत्येकार्थ एकशब्द इति मन्यते । एवंभूतस्तु चेष्टासमय एव घटो 'घट' शब्दवाच्यः अन्यथाऽतिप्रसङ्गात् । तदेवम् अभिन्नोऽर्थो वाच्योऽस्येत्यभिन्नार्थो घटशब्द इति मन्यते ।। ३० ।। [S.T.P. 430]
[ एकस्यैव वस्तुनस्त्रैकालिकानन्तशब्दार्थपर्यायशालितयाऽनन्तप्रमाणत्वेन सर्वात्मकत्वाख्यानम् ]
यत् तदन्यतो विभक्तेन स्वरूपेणैकमनेकं च वस्तूक्तम् तद् अनन्तप्रमाणमित्याख्यातुमाहएगदवियम्मि जे अत्थपज्जया वयणपज्जया व
तीयाणागयभूया तावइयं तं हवइ दव्वं ।। ३१ ।।
५८
एकस्मिन् जीवादिद्रव्ये अर्थपर्याया अर्थग्राहकाः संग्रह-व्यवहार-ऋजुसूत्राख्याः तद्ग्राह्या वा अर्थभेदाः वचनपर्यायाः शब्दनयाः शब्द-समभिरूढ - एवंभूताः तत्परिच्छेद्या वस्त्वंशा वा ते च अतीतानागतवर्त्तमानरूपतया सर्वदा विवर्त्तन्ते विवृत्ताः विवर्त्तिष्यन्त इति तेषामानन्त्याद् वस्त्वपि तावत् प्रमाणं भवति । तथाहि - अनन्तकालेन सर्वेण वस्तुना सर्वावस्थानां परस्परानुगमेनाऽऽसादितत्वात् अवस्थातुष्टावस्थानां कथञ्चिदनन्यत्वात् घटादिवस्तु पटपुरुषादिरूपेणापि कथञ्चिद् विवृत्तमिति सर्वं सर्वात्मकं कथञ्चिदिति स्थितम् । दश्यते चैकं पुद्गलद्रव्यं अतीता-ऽनागत-वर्त्तमानद्रव्य-गुण-कर्म-सामान्य- विशेषपरिणामात्मकं युगपत् क्रमेणापि तत् तथाभूतमेव । एकान्ताऽसत उत्पादायोगात् सतष्टा निरन्वयविनाशासम्भवादिति प्रतिपादितत्वात् ।।३१ । । [S.T.P.430]
-: आचाराङ्गसूत्रे :
उद्देश- ४
पू. आ. शीलाङ्काचार्यजीकृतटीकायाम् अध्ययन-३, जे एगं जाइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ (सू० १२२ )
1- एकदवियस्स (आचा. टीका) 1
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org