________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३१
यः कष्टिादविशेषितः एकं परमाण्वादि द्रव्यं पष्टाात्पुरस्कृतपर्यायं वा जानाति परिछिन्नत्ति स सर्वं स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वाद, इदमेव हेतुहेतुमद्भावेन लगयितुमाह-जे सव्वमित्यादि, यः सर्वं संसारोदरविवरवर्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम् [सम्मतौ] -
“एगदवियस्स जे अत्थपजवा वयणपजवा वावि । तीयाणागयभूया तावइयं तं हवइ दव्वं ।। १/३१ ।।"
-: द्वादशारनयचक्रे :
आरक-१ तद्यथा-एकपरमाणुवर्ण-गन्ध-रस-स्पर्शपरिणामैः सप्रभेदैः स्वाभाविकैः पुरस्कृतैः पप्टात्कृतैप्टा व्यणुकादिभिः सांयोगिकैर्महास्कन्धपर्यन्तैर्वैस्रसिकैः प्रायोगिकैप्टा कार्मणशरीरा-दिभिरभिसम्बध्यते । यथोक्तम् [सम्मतौ] -
एक्कदवियम्मि जे अत्थपज्जया वयणपज्जया वा वि। तीताणागतभूता तावइअं तं हवइ दव्वं ।। [१/३१]
-: नयोपदेशे :
गाथा-३ एकवस्तुग्रहे तद्गतस्व-परपर्यायकुक्षिप्रवेशेन सर्वेषामेव ग्रहात्, अनुवृत्ति-व्यावृत्तिसंबन्धपर्यालोचने तावत् प्रमाणस्यैव वस्तुनोऽनुभवात् । तदाह महावादी सम्मतौ -
एगदविअम्मि जे अत्थपजवा वयणपजवा वा वि । तीयाऽणागयभूआ, तावइयं तं हवइ दव्वं" ।। १/३१ ।। इति ।
1-एकदवियम्मि (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org