________________
संमतितर्कप्रकरणे, काण्ड -१, गाथा - ३२-३३
[व्यञ्जनार्थपर्यायभावनया पुरुषस्य भेदाभेदात्मकत्वसमर्थनेन वस्तुमात्रस्याऽनेकान्तरूपत्वसूचनम् ]
६०
एवं तावद् बाह्याभ्यन्तरभेदेन द्विविधस्यापि वस्तुनोऽनेकान्तात्मकत्वं प्रतिपाद्य तत्प्रतिपादनवाक्यनयानामपि तथाविधमेव स्वरूपम्, नान्यादृग्भूतमस्तीति प्रतिपादयन्नाहपुरिसम्म पुरिससद्दो जम्माई मरणकालपज्जन्तो ।
तस्स उ बालाईया पज्जवजोया बहुवियप्पा ।। ३२ ।।
अथवा अर्थ-व्यञ्जनपर्यायैः शक्ति-व्यक्तिरूपैरनन्तैरनुगतोऽर्थः सविकल्पो निर्विकल्पष्टा प्रत्यक्षतोऽवगतः, इदानीं पुरुषदृष्टान्तद्वारेण व्यञ्जनपर्यायं तदविकल्पकत्वनिबन्धनम् अर्थपर्यायं च तत्सविकल्पत्वनिमित्तमाह-पुरिसम्मि इत्यादिना सूत्रेण
अतीतानागतवर्त्तमानानन्तार्थ-व्यञ्जनपर्यायात्मके पुरुषवस्तुनि 'पुरुष' इति शब्दो यस्यासौ पुरुषशब्दः तद्वाच्योऽर्थो जन्मादिर्मरणपर्यन्तोऽभिन्न इत्यर्थः ' पुरुषः' इत्यभिन्नाभिधानप्रत्ययव्यवहारप्रवृत्तेः तस्यैव बालादयः पर्याययोगाः परिणतिसम्बन्धा बहुविकल्पा अनेकभेदाः प्रतिक्षणसूक्ष्मपरिणामान्तर्भूता भवन्ति तत्रैव तथाव्यतिरेकज्ञानोत्पत्तेः एवं च ‘स्यादेकः’ इत्यविकल्पः 'स्यादनेकः' इति सविकल्पः सिद्धः, अन्यथाऽभ्युपगमे तदभाव एवैति विपक्षे 'अत्थि 'त्ति णिव्वियप्पं' इत्यनन्तरगाथया बाधां दर्शयिष्यति ।
द्वितीयपातनिकाऽऽयातगाथार्थस्तु-पुरुषवस्तुनि पुरुषध्वनिर्व्यञ्जनपर्यायः शेषो बालादिधर्मकलापोऽर्थपर्याय इति गाथासमुदायार्थः । [S.T.P.431]
[ पुरुषस्य भेदाभेदैकान्ताभ्युपगमे अभावरूपतापत्त्या दूषणम् ]
यथा पुरुषस्तथा सर्वं वस्त्वेकम् अनेकं वा सर्वस्य तथैवोपलब्धेः अन्यथाभ्युपगमे एकान्तरूपमपि तन्न भवेदिति दर्शयन्नाह
अस्थि ति णिव्वियप्पं पुरिसं जो भणइ पुरिसकालम्मि । सो बालाइ वियप्पं न लहइ तुल्लं व पावेज्जा ||३३||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org