________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३४
६१
इति ।
अस्ति इति एवं निर्विकल्पं निष्क्रान्ताशेषभेदस्वरूपं पुरुषम् एकरूपं पुरुषद्रव्यं यो ब्रवीति पुरुषकाले पुरुषोत्पत्तिक्षण एव असौ बालादिभेदं न लभते बालादिभेदरूपतया नासौ स्वयमेव व्यवस्थितिं प्राप्नुयात् । नापि तद्रूपतया अपरमसौ पश्येत् । एवं चाभेदरूपमेव तत् पुरुषवस्तु प्रसज्येत । तुल्यं वा प्राप्नुयात् तदप्यभेदरूपं बालादितुल्यतामेव अभावरूपतया प्राप्नुयात् भेदाऽप्रतीतावभेदस्याप्यप्रतीतेरभाव इति भावः ।
यद्वा अस्ति इति एवं निर्विकल्पम् निष्टिातो विकल्पो भेदो यस्मिन् पुरुषद्रव्ये तद् निर्विकल्पं भेदरूपं पुरुषं तत्स्वरूपलाभकाले भणति असौ बालादिविकल्पं न लभेत तुल्यम् इति द्रव्यतुल्यतामेवासौ प्राप्नुयात् । अत्रापि पूर्ववत् तदग्रहे तदग्रहाद् भेदरूपताया अप्यभाव इति भावः । न चैवमेवास्त्विति वक्तव्यम्, सर्वव्यवहारोच्छेदप्रसक्तेरिति भेदाभेदरूपमेव वस्त्व स्तु ।।३३ | | [S.T.P. 440]
[ पुरुषे शब्दार्थ-पर्यायाभ्यां भेदाभेदरूपत्वस्य व्यवस्थापनम् ] अस्यैवोपसंहारार्थमाह
वंजणपज्जायस्स उ पुरिसो 'पुरिसो' त्ति णिञ्चमवियप्पो ।
बालाइवियप्पं पुण पासइ से अत्थपज्जाओ ।।३४।। शब्दपर्यायेणाऽविकल्पः पुरुषः बालादिना त्वर्थपर्यायेण सविकल्पः सिद्ध इति गाथातात्पर्यार्थः ।
“व्यञ्जयति व्यनक्ति वाऽर्थानिति व्यञ्जनम् शब्दः न पुनः शब्दनयस्तस्य ऋजुसूत्रार्थनयविषयत्वाद्” इति केचित्-तस्य पर्यायः आ जन्मनो मरणान्तं यावदभिन्नस्वरूपपुरुषद्रव्यप्रतिपादकत्वम्, तद्वशेन तत्प्रतिपाद्यं वस्तुस्वरूपमत्र ग्राह्यम् उपचारादेवं च द्वितयमप्येतत् पुरुषः 'पुरुषः' इति अभेदरूपतया न भिद्यते-व्यञ्जनपर्यायमतेन पुरुषवस्तु सदा अविकल्पम् भेदं न प्रतिपद्यत इति यावत् । बालादिविकल्पं बालादिभेदं पुनस्तस्यैव पश्यति अर्थपर्यायः ऋजुसूत्राद्यर्थनयः । अत्रापि विषयिणा विषयः ऋजुसूत्राद्यर्थनयविषयः अभिन्ने
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org