________________
दर
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३४-३५
पुरुषरूपे भेदस्वरूपो निर्दिष्टः उपचारात् । एवं चाभिन्नं पुरुषवस्तु भेदं प्रतिपद्यत इति यावत् ।।३४ । । [S.T.P.441]
-: नयोपदेशे :
गाथा-५ अत एव सविचारणया सामान्यदृष्ट्या च सर्वं निर्विकल्पकं विशेषदृष्ट्या च सर्वं सविकल्पकमित्यनेकान्तः पुरुषदृष्टान्तेन संमतौ प्रतिपादितः । तथाहि
"वंजणपज्जायस्स उ पुरिसो ‘पुरिसो'त्ति निश्चमविअप्पो ।
बालाइविगप्पं पुण पासइ से अत्थपज्जाओ ।। १/३४ ।। व्यञ्जयति व्यनक्ति चार्थानिति व्यञ्जनं शब्दः, न पुनः शब्दनयः, तस्य सूत्रसमानपर्यायविषयत्वात्, तस्य पर्यायः वाच्यता तद्ग्राहकनयेन पुरुषः, पुरुष इति पुरुषत्वप्रकारकज्ञानविषय इति, नित्यम् आ जन्मनो मरणान्तं यावद्, अविकल्पः पुरुषत्वातिरिक्ताप्रकारकज्ञानविषयः, इदमुपलक्षणं द्रव्यत्ववस्तुत्वादिनाऽप्यविकल्पत्वस्य, शुद्धद्रव्योपयोगे तु पदद्वयस्य निर्धर्मकत्वलक्षणया शुद्धधर्मिविषयकभानविषयत्वमेवाविकल्पत्वं द्रष्टव्यम्, से तस्य पुरुषस्य, अर्थपर्यायः ऋजुसूत्राद्यर्थग्राहकनयः, पुनर्बालादिविकल्पं बालादिभेदं पश्यति ।। ३४ ।।
[ वस्तुनोऽनेकान्तात्मकत्वेऽप्येकान्तरूपत्वं वदतोऽप्रमाणत्वख्यापनम् ] एवं निर्विकल्प-सविकल्पस्वरूपे प्रतिपाद्ये पुरुषादिवस्तुनि तद्विपर्ययेण तद् वस्तु प्रतिपादयन् वस्तुस्वरूपानवबोध स्वात्मनि ख्यापयतीति दर्शनार्थमाह
सवियप्प-णिब्बियप्पं इय पुरिसं जो भणेज्ज अवियपं ।
सवियप्पमेव वा णिच्छएण ण स निच्छिओ समए ।।३५।। सविकल्पनिर्विकल्पं स्यात्कारपदलाञ्छितं पुरुषद्रव्यं यः प्रतिपादकः तद् वस्तु ब्रूयात् अविकल्पमेव सविकल्पमेव वा निष्टायेन इत्यवधारणेन स यथावस्थितवस्तुप्रतिपादने प्रस्तुते अन्यथाभूतं वस्तुतत्त्वं प्रतिपादयन् न निष्टिात इति निष्टायो निष्टिातम् तद् अस्यास्तीति निष्टिातः'अर्शआदित्वात् अच् समये परमार्थेन वस्तुस्तत्त्वस्य परिच्छेत्तेति यावत् । तथाहि
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org