________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३५
प्रमाणपरिच्छिन्नं तथैवाविसंवादि वस्तु प्रतिपादयन् वस्तुनः प्रतिपादक इत्युच्यते । न च तथाभूतं वस्तु केनचित् कदाचित् प्रतिपन्नम् प्राप्यते वा येन तथाभूतं तद्वचस्तत्र प्रमाणं भवेत् तथाभूतवचनाभिधाता वा तज्ज्ञानं वा प्रमाणतया लोके व्यपदेशमासादयेत् ।।३५ । । [S.T.P.441]
-: अनेकान्तव्यवस्थायां :
सङ्ग्रहनयस्वरूपवर्णने, पत्र २६ सोऽयं देवदत्त इति वाक्ये लक्षणाभ्युपगमे बीजाभावात, तत्तेदन्ताविशिष्टयोर्भेदाभेदस्य सार्वजनीनत्वेन विरोधाभावात्, न हि प्रत्यक्षसिद्धेऽर्थे विरोधो नाम, अन्यथा चित्ररूपचित्रज्ञानादावपि नानारूपसमावेशबाधेनाखण्डांशलक्षणास्वीकारापत्तेः । प्रतीतिबलात्तत्रप्यखण्डांशे लक्षणा स्वीक्रियत एवेति चेत्, तर्हि द्रव्यनयदृष्ट्याऽखण्डप्रतिभासवत्पर्यायनयदृष्ट्या सखण्डप्रतिभासोऽपि सार्वजनीनो न ह्यवयवव्यतिरिक्तोऽवयवी कप्टिादनुभूयते इत्यखण्डवाचकपदस्य सखण्डांश एव किं न लक्षणा स्वीक्रियते ?, न ह्येका प्रतीतिः स्वगृहकुटुम्बिनी अन्या च परगृहकुटुम्बिनीति त्वदिच्छामात्रं प्रामाणिकैरनुरोत्स्यते, उभयप्रतीत्यनुरोधे चोभयात्मकमेव वस्तु जिनेश्वरशिष्यीभूय विभाव्यताम् । तदिदमभिप्रेत्योक्तं भगवता सम्मतिकृता
“सवियप्प-णिब्बियप्पं, इय पुरिसं जो भणेज अवियप्पं ।
सवियप्पमेव वा णिच्छएण ण स णिच्छिओ समए ।। १/३५ ।।" सखण्डाकारप्रतीतिविषयत्वं सविकल्पत्वम, अखण्डाकारप्रतीतिविषयत्वं च निर्विकल्पत्वम्, ततः प्रमाणमार्गेण सखण्डाखण्डोभयरूपत्वमेव वस्तुनो व्यवस्थितम्, इत्थं चाखण्डैकरूपं ब्रह्म प्रतिपादयन् वेदो निष्टायनयमेवालम्बत इति विचारणीयम् ।
- नयोपदेशे :
गाथा-५ सविअप्प-णिव्विअप्पं इय पुरिसं जो भणेज अविअप्पं ।
सविअप्पमेव वा णिच्छएण ण स णिच्छिओ समये ।।सम्मतौ-१/३५ ।। सविकल्पं निर्विकल्पं स्यात्काराङ्कितं तदुभयपदघटितमहावाक्यबोधरूपपुरुषद्रव्यस्य यो भणेद् अविकल्पमेव सविकल्पमेव वा, निष्टायेन एकान्तेन समये परमार्थे, न निष्टिातः निष्टायो निष्टिातं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org