________________
६४
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३५
तदस्यास्तीति निष्टिातः, अर्शआदित्वादच्प्रत्ययः, न तदर्थे इत्यर्थः, दुर्नयाभिनिवेशाद् नयत्वाद् वा संपूर्णानेकान्तवस्तुस्वरूपापरिच्छेदादिति रहस्यम् ।। ३५ ।।
-: ज्ञानबिन्दुः :सविकल्पाविकल्पयोरनेकान्तस्य समर्थनम्“तत्त्वमसि" (छान्दो. ६/८/७) इत्यादावपि आत्मनस्तत्तदन्यद्रव्यपर्यायोपरागासम्भवविचारशतप्रवृत्तावेव शुद्धद्रव्यविषयं निर्विकल्पकमिति शुद्धदृष्टौ घटज्ञानाद् ब्रह्मज्ञानस्य को भेदः । एकत्र सदद्वैतमपरत्र ज्ञानाद्वैतं विषय इत्येतावति भेदे त्वौत्तरकालिकं सविकल्पकमेव साक्षीति सविकल्पकाऽविकल्पकत्वयोरप्यनेकान्त एव श्रेयान् । तदुक्तम् [सम्मतौ] -
“सविअप्प-णिव्विअप्पं इय पुरिसं जो भणेज अविअप्पं ।
सविअप्पमेव वा णिच्छएण ण स णिच्छिओ समए ।।” १/३५ ।। इति । न च निर्विकल्पको द्रव्योपयोगोऽवग्रह एवेति तत्र विचारसहकृतमनोजन्यत्वानुपपत्तिः, विचारस्य ईहात्मकत्वेन ईहाजन्यस्य व्युपरताकाङ्क्षस्य तस्य नैप्टायिकापायरूपस्यैव अभ्युपगमात्, अपाये नामजात्यादियोजनानियमस्तु शुद्धद्रव्यादेशरूपश्रुतनिश्रितातिरिक्त एवेति विभावनीयं स्वसमयनिष्णातैः ।
-: अष्टसहस्त्रीतात्पर्यविवरणे :
परिच्छेद-१ काण्ड-३ यदि च शुद्धब्रह्मणि निर्विकल्पकविषयत्वमेव तत्त्वमसीत्यादिवाक्यादपि जहदजहल्लक्षणयाखण्डब्रह्मण्येव पदवृत्तिग्रहेण निर्विकल्पकशाब्दबोधोपपत्तिरिति विभाव्यते तदा द्रव्यार्थादेशात् सर्वत्र विशेषविनिर्मोकेण निर्विकल्पकपदशक्तिग्रहसम्भवात् सर्वस्यैव निर्विकल्पकैकवेद्यत्त्वमस्त्विति निर्विकल्पसविकल्पकतयापि पदार्थानामनेकान्त एव श्रेयान् । तदुक्तं पुरुषद्रव्यमाश्रित्य सम्मती -
सवियप्प-णिव्विअप्पं, इयं पुरिसं जो भणेज्ज अविअप्पं ।
सविअप्पमेव वा णिच्छएण ण स णिच्छिओ समए ।।१।। त्ति (१/३५) ___ तथा च सर्वप्रमाणानां निर्विकल्पकादेशाद्विधातृत्वं सविकल्पकादेशाच्च निषेद्धत्वमिति तुल्यौ विधिनिषेधाविति मन्तव्यम्, अधिकमेतत्तत्त्वं नयामृततरङ्गिण्यां प्रतिपादितमस्माभिरिति तत एवाधिमन्तव्यम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org