________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३६
___ [ सप्तभङ्गीस्वरूपविचारणा ] परस्पराक्रान्तभेदाभेदात्मकस्य वस्तुनः कथञ्चित् सदसत्त्वमभिधाय तथा तदभिधायकस्य वचसः पुरुषस्यापि तदभिधानद्वारेण सम्यग्मिथ्यावादित्वं प्रतिपाद्य अधुना भावाभावविषयं तत्रैवैकान्तानेकान्तात्मकमंशं प्रतिपादयतो विवक्षया सुनय-दुर्नय-प्रमाणरूपतां तत्प्रतिपादकं वचो यथा अनुभवति तथा प्रपञ्चतः प्रतिपादयितुमाह
यद्वा यथैव तद् वस्तु व्यवस्थितं तथैव वचनात् प्रतिपादयतो वक्तुनिपुणत्वं भवति अन्यथा साङ्ख्य-बौद्ध-कणभुजामिव अभिन्न-भिन्न-परस्परनिरपेक्षोभयवस्तुस्वरूपाभिधायिनाम् अर्हन्मतानुसारिणामपि 'स्यादस्ति' इत्यादिसप्तविकल्परूपतामनापन्नवचनं वक्तृणां स्यात्कारपदाऽलाञ्छितवस्तुधर्म प्रतिपादयतामनिपुणता भवेदिति प्रपञ्चतः सप्तविकल्पोत्थाननिमित्तमुपदर्शयितुं गाथासमूहमाह
अत्यंतरभूएहि य णियएहि य दोहि समयमाईहिं ।
वयणविसेसाईयं दब्बमवत्तव्वयं पडइ ।।३६।। अस्यास्तात्पर्यार्थः-अर्थान्तरभूतः पटादिः निजो घटः ताभ्यां निजार्थान्तरभूताभ्यां सदसत्त्वं घटवस्तुनः प्रथम-द्वितीयभङ्गनिमित्तं प्रधान-गुणभावेन भवतीति प्रथम-द्वितीयौ भङ्गो १-२ । यदा तु द्वाभ्यामपि युगपत् तद् वस्तु अभिधातुमभीष्टं भवति तदा अवक्तव्यभङ्गकनिमित्तम्, तथाभूतस्य वस्तुनोऽभावात् प्रतिपादकवचनातीतत्वात् तृतीयभङ्गसद्भावः वचनस्य वा तथाभूतस्याभावाद् अवक्तव्यं वस्तु ३ ।। ३६ ।। [S.T.P.442]
-: अनेकान्तव्यवस्थायां :
सप्तभङ्गस्वरूपवर्णने पत्र-६९ तदिदमभिप्रेत्योक्तं सम्मतौ
“अत्यंतरभूएहि य, णियएहि य दोहि समयमाईहिं । वयणविसेसाईअं दव्वमव्वत्तव्वयं पडइ ।। १/३६ ।।"
1-समयमाइ8 (स्या. कल्प.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org