________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ३६
अस्यार्थः– अर्थान्तरभूतैर्निजकैष्टा पर्यायैः क्रमेण स्यात् सन् स्यादसन्निति द्वौ भङ्गौ भवत इति शेषः । द्वाभ्यां चादिभ्यां प्रागुक्ताभ्यां प्रकाराभ्याम्, समकं युगपद्विवक्षितमिति शेषः, द्रव्यं वचनविशेषातीतं सत्तथाविधवचनवाच्यताऽनापन्नं सद्, अवक्तव्यकं पतति तृतीयभङ्गविषयतामास्कन्दतीति । अत्र च निजार्थान्तरपर्यायैरनेकान्तोपजीविनैगमव्यवहारविशुद्धतारतम्योपदर्शकवसतिदृष्टान्तनीत्या यथाक्रमसङ्कुचद्भिः क्रमेण युगपञ्चादिष्टैरूपदर्शितेषु षोडशस्ववक्तव्यविकल्पेषु मध्ये एकादशसु त्रयोऽपि भङ्गाः सम्भवन्ति, द्वादशादिषु पञ्चसु स स्वतन्त्रैकान्ते नयार्पितैस्तैः प्रत्येकं समुदाये च सर्वथाऽवक्तव्यत्वभङ्ग एवोत्तिष्ठते, स च बाधितः सन् कथञ्चिदवक्तव्यत्वे पर्यवस्यति, तस्य कथञ्चित्त्वं च भङ्गद्वयाधीनम्, इत्थं च त्रयाणां भङ्गानां क्रमाभिधानमेव सम्प्रदायसिद्धमिति । -: शास्त्रवार्त्तासमुच्चये :
६६
स्याद्वादकल्पलताटीकायाम् स्तबक- ७, गाथा २३
यदि वा, रूपादयः पररूपम्, मतुबर्थः स्वरूपम्, रूपाद्यात्मकैकाकारावभासप्रत्ययविषयव्यतिरेकेणापररूपसम्बन्ध्यनवगतेर्विशेष्याभावाद् न रूपादिमान् घट इत्यवाच्यः । न चैकाकारप्रतिभासग्राह्यव्यतिरेकेणापररूपादिप्रतिभासः, इति विशेषणाभावादप्यवाच्यः । अनेकान्ते तु कथञ्चित्
तथा ।
अथवा, बाह्यः पररूपम्, उपयोगस्तु स्वं रूपम्, ताभ्यामादिष्टोऽवक्तव्यः, तथाहि-य उपयोगः स घट इत्युक्तौ उपयोगमात्रमेव घट इति सर्वोपयोगस्य घटत्वप्रसक्तिः, इति प्रतिवाच्यः । यो घटः स उपयोग इत्युक्तावुपयोगस्यार्थत्वप्रसक्तेरुपयोगाभावे घटस्याप्यभाव इति कथं नावाच्यः ? I तदिदमुक्तम् [सम्मतौ] -
1
“" अत्यंतरभूएहि य णियएहि अ दोहि समयमाइ ।
वयणविसेसाईयं दव्वमवत्तव्वयं पडइ || १ / ३६ ।।” इति ।
-: अष्टसहस्रीतात्पर्यविवरणे :
परिच्छेद १, काण्ड १६
कथञ्चिदर्पितयोः-स्वपररूपाभ्यां विवक्षितयोः, तथाप्रतिपत्तिसद्भावाच्च तादृशयोस्तयोरेकाधिकरणत्वधीसद्भावाच्च, न च दृष्टेऽनुपपन्नं नाम, भिन्नस्वभावयोरप्येकत्वं दृष्टान्तेन प्रसिद्धेनोपदर्शयति
1- समयमाईहिं (संमति ) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org