________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३७
शाब्देतरेत्यादि । स्पष्टास्पष्टविषयतया भिन्नस्वभावत्वेन सिद्धयोः प्रत्यक्षशाब्दबोधयोर्यथैक- . विषयत्वमेकद्रव्याश्रयत्वं चाविरुद्ध तथा सत्त्वासत्त्वयोरेकाश्रयत्वमपीति युगपदादिष्टाभ्यां तद्भेदादानेकभेद इत्येते त्रयो निरवयवद्रव्यविषयत्वात् सकलादेशरूपाः सदसत्त्वसदवक्तव्यत्वादयष्टात्वारस्तु चरमाः सावयवद्रव्यविषयत्वाद्विकलादेशरूपाः, देशभेदं विनैकत्र तु क्रमेणापि सदसत्त्वविवक्षा सम्प्रदायविरुद्धत्वान्नोदेतीति न निरवयवद्रव्यविषयत्वमेषामित्यस्मदभिमतोक्तमेव युक्तमिति मन्तव्यम् । तदेतद्रहस्यं स्वसमयव्युत्पत्तिरसिकमनोविनोदाय सम्मतिगाथाभिरेव व्युत्पादयामः
अत्यंतरभूएहिं णियएहि य दोहिं समयमाईहिं ।
वयणविसेसाईयं दव्वमवत्तव्वयं पडइ ।। [१/३६] अर्थान्तरभूतः पटादिः निजो घटादिः ताभ्यां द्वाभ्यां सदसत्त्वं घटवस्तुनः प्रथम-द्वितीयभङ्गनिमित्तं प्रधानगुणभावेन भवतीति सोपस्कारं व्याख्येयम् । ‘समयमाइहिं' इत्यनन्तरं तुर्गम्यः, द्वाभ्यामिति चानुवर्त्तते, समकमादिरादानं ययोस्ताभ्यां सहार्पिताभ्यां तु द्वाभ्यामित्यर्थः । वचनविशेषातीतं वचनस्य विशेषः शक्तिस्तमतीतमतिक्रान्तं सत् तथाविधवाचकाविषयीभूतमिति यावत् । द्रव्यं घटादि, अव्यक्तव्यम्, पतति अशक्तिभाराद्वक्तव्यताशिखरे स्थातुं न शक्नोतीत्यर्थः । अव्यक्तव्यतां वा पततीति व्याख्येयम्, तथाहि-द्वयोर्धर्मयोः प्राधान्येन गुणभावेन वा प्रतिपादने न किञ्चिद्वचः समर्थम् ।
[ चतुर्थभङ्गनिरूपणम् ] एवं निरवयववाक्यस्वरूपं भङ्गकत्रयं प्रतिपाद्य सावयववाक्यरूपचतुर्थभङ्गकं प्रतिपादयितुमाह
अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ ।
तं दवियमत्थि णत्थि य आएसविसेसियं जम्हा ।।३७।। अथ इति यदा देशो वस्तुनोऽवयवः सद्भावेऽस्तित्वे नियतः ‘सन्नेवायम्' इत्येवं निष्टिातः अपरप्टा देशोऽसद्भावपर्याये-नास्तित्व एव-नियतः- असन्नेवायम्' इत्यवगतः अवयवेभ्योऽवयविनः कथञ्चिदभेदाद् अवयवधर्मेस्तस्यापि तथाव्यपदेशः यथा 'कुण्ठो देवदत्तः' इति । ततोऽवयवसत्त्वासत्त्वाभ्यामवयवी अपि सदसन् सम्भवति । ततः तद् द्रव्यमस्ति च नास्ति
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org