________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३७
चेति भवत्युभयप्रधानावयवभागेन विशेषितं यस्मात् । तथाहि-यद अवयवेन विशिष्टधर्मेण आदिश्यते तद् अस्ति च नास्ति च भवति । तथा, स्वद्रव्य-क्षेत्र-काल-भावैर्विभक्तो घटः स्वद्रव्यादिरूपेणास्ति परद्रव्यादिरूपेण च स एव नास्ति । तथा च पुरुषादि वस्तु विवक्षितपर्यायेण बालादिना परिणतं कुमारादिना चापरिणतमित्यादिष्टमिति योज्यम्-४ ।।३७ ।।
[S.T.P.446]
-: अनेकान्तव्यवस्थायां :
सप्तमभङ्गस्वरूपवर्णने, पत्र-७० आह च [सम्मतौ] -
“अह देसो सब्भावे, देसोऽसब्भावपज्जवे णियओ ।
तं दवियमत्थि णत्थि य, आएसविसेसियं जम्हा ।। १/३७ ।।" अस्यार्थः- यदा देशो वस्तुनोऽवयवः सद्भावेऽस्तित्वे नियतः सन्नेवायमित्येवं निष्टिातः, अपरष्टा देशोऽसद्भावपर्याये नास्तित्व एव नियतोऽसन्नेवायमित्यवगतः, अवयवेभ्योऽवयविनः कथञ्चिदभेदादवयवधर्मेस्तस्यापि तथा व्यपदेशो, यथा 'कुण्ठो देवदत्त इति' ततोऽवयवसत्त्वासत्त्वाभ्यामवयव्यपि सदसन् सम्भवति, ततस्तद्रव्यस्ति च नास्ति चेति भवति, आदेशेन उभयप्रधानावयवभागेन विशेषितं यस्मात् ।
तथाहि, यदवयवेन विशिष्टधर्मेण आदिश्यते तदस्ति च नास्ति च भवति, तथा स्वद्रव्यक्षेत्रकालभावैर्विभक्तो हि घटोऽस्ति परद्रव्यादिरूपेण च स नास्तीति । आद्ययोरपि भङ्गयोः स्वद्रव्यपरद्रव्याभ्यां विभज्यत एव घट इति तत्समुदायात्कोऽस्य विशेष इति चेत्, न, तत्रास्तित्वनास्तित्वावच्छेदकद्वारा विभागेऽप्यवयवद्वारा विभागाभावात्, अत्र तु तद्द्वारा विभागेन विशेषात् । तद्वारा विभागकरण एव किं बीजमिति चेत् ? सावयवनिरवयवात्मकवस्तुनस्तथाप्रति पत्तिजनकसावयवनिरवयवत्वशबलैकस्वरूपवाक्यत्वेन प्रामाण्यरक्षार्थमिति दिक् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org