________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ३७
-: अष्टसहस्रीतात्पर्यविवरणे
परिच्छेद- १, काण्ड १६
भङ्गाः षोडश योगतर्कवदिमे भूयो विचारक्षमाः, साकल्येन च तैर्नियम्यत इदं भङ्गत्रयं वस्तुनि |
तेनैतान् सुधियो वदन्ति सकलादेशान् विवक्षावशा
देशस्थांटातुरः परांस्तु विकलादेशान्निदेशाद् गुरोः ।।१।। ( शार्दूल०)
एतदन्यतरेणैव सप्तभङ्ग्यैक्यमिष्यते ।
शब्दसाम्येन नैकत्वं तत्त्वतः षोडशैव ताः ।।२ ।।
हार्थे कोटिशो भङ्गा निर्दिष्टा मल्लवादिना । मूलसम्मतिटीकायामिदं दिङ्मात्रदर्शनम् ।।३।।
एत एव सप्तभङ्गाः स्यात्पदलाञ्छनविरहिणोऽवधारणैकस्वभावा विषयाभावाद्दुर्नया भवन्ति । धर्मान्तरोपादानप्रतिषेधाकरणात्, स्वार्थमात्रप्रतिपादनपराः स्यात्पदमहिम्ना विवक्षितैकधर्मावधारणपरा वा सुनया इति विभागः ।
--
एवं निरवयववाक्यात्मकं भङ्गत्रयं प्रतिपाद्य सावयववाक्यरूपं चतुर्थं भङ्गं प्रतिपादयितुमाह [सम्मतौ]
अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ ।
तं दवियमत्थि णत्थि य आएसविसेसियं जम्हा ।।२ ।। [१ / ३७]
Jain Education International 2010_02
६९
अथेति यदा देशो वस्तुनोऽवयवो धर्मो वा, सद्भावेऽस्तित्वे, नियतो विवक्षितः, देशापरोऽसद्भावे नास्तित्वे तदा तद् द्रव्यमस्ति च नास्ति चेति देशाभेदद्वारेण वाच्यम् । अक्षिपाणिगतकाणकुण्टत्वयोगात् काणकुण्ट इव देवदत्तः, तदाह यस्मात्तद् द्रव्यमादेशविशेषितम् उभयस्वाश्रयसमवायित्वरूपपरम्परासम्बन्धावच्छिन्नधर्मद्वयप्रकारतानिरूपितैकविशेष्यताकौपादानिकबोधेच्छाविषयीकृतमिति यावत् । यथाश्रुते घटपदस्य देशपरस्यावृत्त्याः प्रकारताद्वयनिरूपितविशेष्यताद्वयशालिन एव बोधस्य जननादौपादानिकबोध- पर्यन्तमनुधावनम्, एवमग्रेऽपि
प्रधानावयवाभेदेनार्पितं
बोध्यम् ।
-
For Private & Personal Use Only
www.jainelibrary.org