________________
७०
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३८
[ पञ्चमभङ्गप्रदर्शनम् ] पूर्वभङ्गकप्रदर्शितन्यायेन पञ्चमभङ्गकप्रदर्शनायाह
सब्भावे आइट्ठो देसो देसो य उभयहा जस्स ।
तं अत्थि अवत्तव्वं च होइ दवि वियप्पवसा ।।३८।। सद्भावेऽस्तित्वे यस्य घटादेर्धर्मिणो देशो धर्म आदिष्टोऽवक्तव्यानुविद्धस्वभावे अन्यथा तदसत्त्वात् । न ह्यपरधर्माप्रविभक्ततामन्तरेण विवक्षितधर्मास्तित्वमस्य सम्भवति खरविषाणादेरिव । तस्यैवापरो देश उभयथा अस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितोऽस्तित्वानुविद्ध एवावक्तव्यस्वभावः अन्यथा तदसत्त्वप्रसक्तेः न ह्यस्तित्वाभावे उभयाविभक्ता शशशृङ्गादेरिव तस्य सम्भविनी, प्रथम-तृतीयकेवलभङ्गव्युदासस्तथाविवक्षावशादत्र कृतो द्रष्टव्यः । तत्र प्रथम-तृतीययोर्भङ्गकयोः परस्पराविशेषणभूतयोः प्रतिपाद्येनाधिगन्तुमिष्टत्वात्, प्रतिपादकेनापि तथैव विवक्षितत्वात्, अत्र तु तद्विपर्ययात् अनन्तधर्मात्मकस्य धर्मिणः प्रतिपाद्यानुरोधेन तथाभूतधर्माक्रान्तत्वेन वक्तुमिष्टत्वात् तद् द्रव्यमस्ति च अवक्तव्यं च भवति तद्धर्मविकल्पनवशात धर्मयोस्तथापरिणतयोस्तथाव्यपदेशे धर्म्यपि तद्वारेण तथैव व्यपदिश्यते ५ ।।३८ ।। [S.T.P. 447]
___ -: अनेकान्तव्यवस्थायां :
सप्तभङ्गस्वरूपवर्णने, पत्र-७० एकस्य देशस्य सत्त्वेनाऽपरस्य च युगपदुभयथादेशे द्वितीयो विकलादेशः । आह च [सम्मतौ]
"सब्भावे आइट्ठो, देसो देसो य उभयहा जस्स ।
तं अत्थि अवत्तव्वं च होइ दवियं विअप्पवसा ।। १/३८ ।।" अस्यार्थः-सद्भावेऽस्तित्वे, यस्य घटादेर्धर्मिणः, देशो धर्मः आदिष्टोऽवक्तव्यानुविद्धः, स्वभावे, अन्यथा तदसत्त्वात्, न ह्यपरधर्माऽप्रविभक्ततामन्तरेण विवक्षितधर्मास्तित्वमस्य सम्भवति, खरविषाणादेरिव, तस्यैवापरो देश उभयथास्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितोऽस्तित्वानुविद्ध एवावक्तव्यस्वभावे, अन्यथा तदसत्त्वप्रसक्तेः, न ह्यस्तित्वाभावे उभयाविभक्तता शशशृङ्गादेरिव तस्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org