________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३८
सम्भविनी, प्रथमतृतीयकेवलभङ्गव्युदासस्तथाविवक्षावशादत्र . कृतोऽत्र द्रष्टव्यः, तत्र प्रथमतृतीययोर्भङ्गयोः परस्पराविशेषणीभूतयोः प्रतिपाद्येनाधिगन्तुमिष्टत्वात्, प्रतिपादकेनापि तथैव विवक्षितत्वाद्, अत्र तु तद्विपर्ययादनन्तधर्मात्मकस्य धर्मिणः प्रतिपाद्यनुरोधेन तथाभूतधर्माक्रान्तत्वेन वक्तुमिष्टत्वात्तद्रव्यमस्ति चावक्तव्यं च भवति, तद्धर्मविकल्पवशाद्धर्मयोस्तथापरिणतयोस्तथा व्यपदेशे धर्म्यपि तद्द्वारेण तथैव हि व्यपदिश्यते ।
अत्रेदमवधेयम् - परस्परविशेषणीभूतयोरस्तित्वावक्तव्यत्वयोरत्र न विवक्षा, चैत्रो रक्तदण्डवानितिवत् स्यादस्त्यवक्तव्यष्टा घट इत्यतोऽस्तित्वविशिष्टाऽवक्तव्यत्ववान् घट इत्यबोधात्, किन्तु चकारबलाद् ‘एकत्र द्वयम्' इति न्यायेन विदेशे दण्डी कुण्डली चेत्यत्र चैत्रे दण्डकुण्डलयोरिव प्रकृते घटेऽस्तित्वाऽवक्तव्यत्वयोः परस्पराऽविशेषणीभूतयोरेव भानात् । एकत्र द्वयभाने द्वयोः सामानाधिकरण्येन वैशिष्ट्यमप्यौत्सर्गिकं भासत इति चेत्, तर्हि सम्भूयभङ्गद्वयजनितबोधेऽपि तद्भानमावश्यकमिति कस्ततो विशेषः । वस्तुतो मिलिताभ्यां प्रथमतृतीयाभ्यामस्तित्वविशिष्टे घटेऽवक्तव्यवैशिष्ट्यज्ञानं सुकरम्, द्वितीयमिलनस्यापि ‘अधिकं प्रविष्टे न तु तद्धानिः' इति न्यायेनादुष्टत्वात्, प्रकृते तु ‘एकत्र द्वयम्' इति न्यायेनापि न बाधो देशेऽसत्त्वस्य देशेऽवक्तव्यत्वस्य च विवक्षणादिति विपरीतो विशेषः, परस्परविशेषणीभूतयोरेकवाक्येन बोध्यत्वप्रकारकतात्पर्यविषयतया तु विशेषो न भङ्गान्तरनिमित्तं फलाविशेषात्, अन्यथा विशेषणविशेष्यभाव कामचारस्यापि तथात्वप्रसङ्गात्, तथापि देशविशेषितपरस्परविशेषणविशेष्यभावेनात्र विशेषो द्रष्टव्यः, प्रकृतेऽस्त्यवक्तव्यपदयोर्देशास्तित्वविशिष्टदेशावक्तव्यत्वविशिष्टयोरेव तात्पर्यानुपपत्त्या लक्षणास्वीकारात्, तयोप्टा तादात्म्येन वैशिष्ट्यबाधस्यैतद्भङ्गफलत्वात्, अयमेव परस्परानुवेधार्थोऽपि द्रष्टव्यः, चतुर्थभङ्गेऽप्युभयप्रधानावयवभागेनैव विशेषोपदेशादत्राग्रेऽपि तस्यैव विशेषस्याऽविशिष्टत्वादिति दिग् ।।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायाम् स्तबक-७, गाथा-२३ यदा च देशोऽस्तित्वेऽवक्तव्यत्वानुविद्धस्वभाव आदिश्यते, अपरप्टा देशोऽस्तित्वनास्तित्वाभ्यामेकदैव विवक्षितोऽस्तित्वानुविद्ध एवावक्तव्यत्वस्वभावे, तदा पञ्चमभङ्गप्रवृत्तिः, प्रथमतृतीयकेवलभङ्गव्युदासोऽत्र विवक्षाभेदकृतो द्रष्टव्यः, प्रथम-तृतीययोः परस्परानुपरक्तयोः प्रतिपाद्येनाधिगन्तुमिष्टत्वात्, प्रतिपादकेनापि तथैव विवक्षितत्वात्, अत्र तु तद्विपर्यतात्, अनन्तधर्मात्मकस्य धर्मिणः प्रतिपाद्यनुरोधेन तथाभूतधर्माक्रान्तत्वेन वक्तुमिष्टत्वात् । तदिदमाह [सम्मतौ]
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org