SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७२ संमतितर्कप्रकरणे, काण्ड-१, गाथा-३९ “सब्भावे आइट्ठो देसो देसो अ उभयहा जस्स। तं अत्थि अवत्तव्वं च होइ दवियं विअप्पवसा ।। १/३८ ।।" -: अष्टसहस्रीतात्पर्यविवरणे : __ परिच्छेद १, काण्ड १६ उक्तन्यायेन पञ्चमभङ्गप्रदर्शनायाह[सम्मतौ] - सब्भावे आइट्ठो देसो देसो य उभयहा जस्स । तं अत्थि अवत्तव्वं च होइ दवियं विअप्पवसा ।। १/३८ ।। सद्भावे अस्तित्वे यस्य घटादेर्धर्मिणो देश आदिष्टो देशष्टापर उभयथाऽस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितः तद् द्रव्यं अस्ति चावक्तव्यं च भवति, विकल्पवशाद् उक्तोभयधर्माक्रान्तदेशद्वारेण धर्मिणो विवक्षावशात्, तेन प्रथमतृतीयभङ्गसंयोगेनान्यथासिद्धिव्युदासः, केवलधर्मविवक्षाया देशाविशेषितद्रव्य एव सम्भवात्, देशद्वारा द्रव्ये उभयधर्मविवक्षाया एव युक्तत्वादिति बोध्यम् । [ षष्टभङ्गप्रदर्शनम् ] षष्ठभङ्गकं दर्शयितुमाह आइट्ठोऽसब्भावे देसो देसो य उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दवियं वियप्पवसा ।।३९।। यस्य वस्तुनो देशोऽसत्त्वे निष्टिातः ‘असन्नेवायम्' इत्यवक्तव्यानुविद्धः अपरप्टासदनुविद्ध उभयथा ‘सन्नसंप्टा' इत्येवं युगपन्निष्टिातस्तदा तद् द्रव्यं नास्ति च अवक्तव्यं च भवति विकल्पवशात् तद्व्यपदेश्यावयववशात् द्रव्यमपि तद्व्यपदेशमासादयति । केवलद्वितीयतृतीयभङ्गकव्युदासेन षष्ठभङ्गः प्रदर्शितः ६ ।।३९ ।। [S.T.P.447] -: अनेकान्तव्यवस्थायां : सप्तभङ्गस्वरूपवर्णने, पत्र-७१ देशेऽसत्त्वस्य देशे च युगपदुभयोर्विवक्षणे षष्ठः, आह च [सम्मतौ] - Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy