________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३९
आइट्ठोऽसब्भावे, देसो देसो य उभयहा जस्स ।
तं णत्थि अवत्तव्वं च होइ दवियं वियप्पवसा ।। १/३९ ।। अस्यार्थः यस्य वस्तुनो देशोऽसत्त्वे आदिष्टोऽसन्नेवायमिति अवक्तव्यतानुविद्धो विवक्षितोऽपरटासदनुविद्धः, उभयथा सदसत्त्वाभ्यामादिष्टस्तदा तद् द्रव्यं नास्ति चावक्तव्यं च भवति विकल्पवशात्, तद्व्यपदेश्यावयवाभेदोपचारात् द्रव्यस्यापि तद्व्यपदेशासादनात्, देशानुपरक्तद्वितीयतृतीयभङ्गव्युदासेनायं षष्ठो भङ्गः प्रवर्तते ।।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायाम्, स्तबक-७, गा. २३ यदा च वस्तुनो देश एकोऽसत्त्वेऽवक्तव्यत्वानुविद्धे निष्टिातः अपरष्टासत्त्वानुविद्धो युगपदुभयथा विवक्षितस्तदा तथाव्यपदेश्यावयववशादवयविनि षष्ठभङ्गप्रवृत्तिः, केवलद्वितीयतृतीयभङ्गव्युदासः, प्राग्वत् प्रतिपाद्यजिज्ञासावशात् । तदिदमाह [सम्मतौ] -
"आइट्ठोऽसब्भावे देसो देसो य उभयहा जस्स । तं णत्थि अवत्तव्यं च होइ दविअं विअप्पवसा ।।" १/३९ ।। -: अष्टसहस्रीतात्पर्यविवरणे :
परिच्छेद-१, काण्ड-१६ षष्ठं भङ्ग दर्शयितुमाह [सम्मतौ] -
आइट्ठो सब्भावे देसो, देसो य उभयहा जस्स ।
तं णत्थि अवत्तव्यं च होइ दवियं विअप्पवसा ।। [१/३९] यस्य वस्तुनो देश एकोऽसत्त्वे नियतोऽपरष्टा सत्त्वासत्त्वाभ्यां युगपद् आदिष्टः तद् द्रव्यं तथा विकल्पवशान्नास्ति चावक्तव्यं च भवति, केवलद्वितीयतृतीयभङ्गव्युदासः प्राग्वद्भाव्यः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org