________________
७४
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४०
[ सप्तमभङ्गप्रकाशनम् ] सप्तमप्रदर्शनायाह
सब्भावाऽसब्भावे देसो देसो य उभयहा जस्स ।
तं अस्थि णत्थि 'अवत्तव्वयं च दवियं वियप्पवसा ।।४०।। यस्य देशिनो देशोऽवयवः देशो धर्मो वा सद्भावनियतो निष्टिातः अपरस्तु असद्भावे असत्त्वे तृतीयस्तु उभयथा इत्येवं देशानां सदसदवक्तव्यव्यपदेशात् तद् अपि द्रव्यमस्ति च नास्ति चावक्तव्यं च भवति विकल्पवशात् तथाभूतविशेषणाध्यासितस्य द्रव्यस्यानेन प्रतिपादनादपरभङ्गव्युदासः । एते च परस्पररूपापेक्षया सप्तभङ्ग्यात्मकाः प्रत्येकं स्वार्थं प्रतिपादयन्ति नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति व्यवस्थितम् ।७।
अत्र चाद्यभङ्गकस्त्रिधा, द्वितीयोऽपि त्रिधैव, तृतीयो दशधा, चतुर्थोऽपि दशधैव, पञ्चमादयस्तु त्रिंशदधिकशतपरिमाणाः प्रत्येकं श्रीमन्मल्लवादिप्रभृतिभिर्दर्शिताः । पुनष्टा षड्विंशत्यधिकचतुर्दशशतपरिमाणास्त एव द्वयादिसंयोगकल्पनया कोटीशो भवन्तीत्यभिहितं तैरेव । अत्र तु ग्रन्थविस्तरभयात् तथा न प्रदर्शितास्तत एवावधार्याः ।
अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पने अष्टमवचनविकल्पपरिकल्पनमपि किं न क्रियत इति न वक्तव्यम् तत्परिकल्पननिमित्ताभावात् । तथाहि-न तावत् सावयवात्मकमन्योन्यनिमित्तकं तत् परिकल्पयितुं युक्तम्, चतुर्थादिवचनविकल्पेषु तस्यान्तर्भावप्रसक्तेः । नापि निरवयवात्मकमन्योन्यनिमित्तकं तत् परिकल्पनामर्हति प्रथमादिष्वन्तर्भावप्रसक्तेः । न च गत्यन्तरमस्तीति नाष्टमभङ्गपरिकल्पना युक्ता । किञ्च, असौ क्रमेण वा तद्धर्मद्वयं प्रतिपादयेत्, यौगपद्येन वा ? प्रथमपक्षे गुणप्रधानभावेन तत्प्रतिपादने प्रथमद्वितीययोरन्तर्भावः प्रधानभावेन तत्प्रतिपादने चतुर्थे । यौगपद्येन तत्प्रतिपादने तृतीये, भङ्गकसंयोगकल्पनया भङ्गान्तरकल्पनायां प्रथमद्वितीयभङ्गकसंयोगे चतुर्थभङ्गक एव प्रसज्यते, प्रथमतृतीयसंयोगात् पञ्चमप्रसक्तिः , द्वितीय-तृतीयसंयोगात षष्ठप्रसक्तिः , प्रथमद्वितीय1-अवत्तव्वं (अष्टसहस्री.)।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org