________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४०
तृतीयसंयोगात् सप्तमः, प्रथमचतुर्थादिसंयोगकल्पनायां पुनरुक्तदोषः । तस्मान्न कथञ्चिदष्टमभङ्गसम्भव इत्युक्तन्यायात् वस्तुप्रतिपादने सप्तविध एव वचनमार्गः ।।४० ।। [S.T.P.447]
-: अनेकान्तव्यवस्थायां :
सप्तभङ्गस्वरूपवर्णने, पत्र-७० देशेऽस्तित्वस्य देशे नास्तित्वस्य देशे च युगपदुभयोर्विवक्षायां सप्तमः । आह च [सम्मतौ] -
“सब्भावासब्भावे, देसो देसो य उभयहा जस्स ।
तं अत्थि णत्थि अवत्तव्वयं च दवियं विअप्पवसा ।। १/४० ।।" अस्यार्थः-यस्य देशिनो देशोऽवयवो देशो धर्मो वा, सद्भावे सत्त्वे नियतोऽपरस्त्वसद्भावेऽसत्त्वे, तृतीयस्तूभयथात्येवं देशानां सदसदवक्तव्यव्यपदेशात्तदपि द्रव्यमस्ति च नास्ति चावक्तव्यं च भवति विकल्पवशात्, तथाभूतविशेषणाध्यासितस्य द्रव्यस्यानेन प्रतिपादनादपरभङ्गव्युदासः । एते च परस्पररूपापेक्षया सप्तभङ्गयात्मकाः प्रत्येकं स्वार्थं प्रतिपादयन्ति नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति सम्प्रदायविदो वदन्ति ।
तत्र जिज्ञासितसप्तधर्मात्मकताप्रतिपादकत्वपर्याप्त्यधिकरणमहावाक्यत्वरूपसप्तभङ्गीत्वं समुदाय एव निरुक्तप्रतिपादकत्वाधिकरणवाक्यत्वरूपं च तत्प्रत्येकमपीति विवेकः । अत एव स्यात्पदलाञ्छनविवक्षितधर्मावधारकत्वेन स्वार्थमात्रप्रतिपादनप्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति, आद्यं सप्तभ
ङ्ग्यात्मकमहावाक्यैकवाक्यतापन्नवाक्ये, अन्त्यं चोदासीने धर्मान्तरोपादानप्रतिषेधाकारिणि, इत्थं च स्यादस्तीत्यादि प्रमाणम्, अस्त्येवेत्यादि दुर्नयः, अस्तीत्यादिकः सुनयः, न तु स व्यवहाराङ्गम्, स्यादस्त्येवेत्यादिस्तु सुनय एव व्यवहारकारणम्, स्वपरानुवृत्तव्यावृत्तवस्तुविषयप्रवर्तकवाक्यस्य व्यवहारकारणत्वादिति ग्रन्थकृतो विवेचयन्ति ।
अत्र सप्तभङ्ग्यामाद्यभङ्गकस्त्रिधा, द्वितीयोऽपि त्रिधा, तृतीयो दशधा, चतुर्थोपि दशधैव, पञ्चमादयस्तु त्रिंशदधिकशतपरिमाणाः प्रत्येकं श्रीमन्मल्लवादिप्रभृतिभिर्दर्शिताः ।
--: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायाम् स्तबक-७ गा. २३ यदा च वस्तुनो देश एकः सत्त्वे नियतः द्वितीयष्टााऽसत्त्वे, तृतीयस्तूभयथाऽभिधित्सितस्तदा तथाभूतविशेषणाध्यासितस्यानेनैव प्रकारेण प्रतिपादनादीदृशेऽर्थेऽपरभङ्गविषयाऽप्रसरात् सप्तमभङ्गप्रवृत्तिः । तदिदमाह [सम्मतौ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org