________________
७६
“सब्भावासब्भावे देसो देसो अ उभयहा जस्स ।
तं अत्थि णत्थि अवत्तव्वयं च दविअं विअप्पवसा ।। १/४०" ।। इति ।
-: अष्टसहस्रीतात्पर्यविवरणे :
परिच्छेद १, काण्ड - १६
सप्तमं प्रदर्शयति [सम्मतौ] -
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ४१
सब्भावास भावे देसो, देसो य उभयहा जस्स ।
तं अत्थि णत्थि 'अवत्तव्वं च होइ दवियं विअप्पवसा [१/४०]
यस्य देश एकः सद्भावे अपरो असद्भावे अन्यष्टा उभयथा नियतस्तद् द्रव्यं तथाविकल्पवशादस्ति नास्त्यवक्तव्यं च भवति, विशिष्टविवक्षया केवलभङ्गत्रयव्युदासः । न चात्राष्टमवचनविकल्पपरिकल्पनापि सम्भवदवतारा, तन्निमित्ताभावात्, सावयवात्मकस्य निरवयवात्मकस्य तन्निमित्तस्य चतुर्थादिषु प्रथमादिषु चान्तर्भावात्, गत्यन्तरस्य चासत्त्वात् । न चावक्तव्यत्ववद्वक्तव्यत्वेनाष्टमेन भवितव्यम्, सप्रतिपक्षमौलभङ्गजिज्ञासामूलजिज्ञासाविषयत्वेनावक्तव्यत्वाश्रयणेऽपि तद्विपर्ययेण वक्तव्यत्वानाश्रयणात्, अत एवावक्तव्यत्वसप्तभङ्ग्यामपि मौलभङ्गद्वयोत्थापिताकाङ्क्षाविषयस्यावक्तव्यत्वस्यान्यस्यैव तृतीयभङ्गे प्रवेशान्न न्यूनत्वमिति वदन्ति तेन व्यवस्थितः सप्तविधो वचनमार्गः ।
[ सप्तानां भङ्गानामर्थनये शब्दनये च यथासंभवं विभजनम् ]
अन्योन्यापरित्यागव्यवस्थितस्वरूपवाक्यनयानां शुद्धयशुद्धिविभागेन संग्रहादिव्यपदेशमासादयतां द्रव्यार्थिकपर्यायार्थिकनयावेव मूलाधार इति प्रदर्शनार्थमाह
एवं सत्तवियो वयणपहो होइ अत्थपज्जाए । वंजणपज्जाए उण सवियप्पो णिव्वियप्पो य ।। ४१ ।।
एवं इत्यनन्तरोक्तप्रकारेण सप्तविकल्पः सप्तभेदः वचनमार्गो वचनपथः भवत्यर्थपर्याये अर्थनये संग्रह-व्यवहार-ऋजुसूत्रलक्षणे सप्ताप्यनन्तरोक्ता भङ्गका भवन्ति । तत्र प्रथमः संग्रहे
1- अवत्तव्वयं ( संमति ) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org