________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४१
सामान्यग्राहिणि, ‘नास्ति’ इत्ययं तु व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः संग्रहव्यवहारयोः, पञ्चमः संग्रह - ऋजुसूत्रयोः, षष्ठो व्यवहार - ऋजुसूत्रयोः, सप्तमः संग्रह-व्यवहारऋजुसूत्रेषु । व्यञ्जनपर्याये शब्दनये सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावेऽप्यर्थस्यैकत्वात् । द्वितीय-तृतीययोर्निर्विकल्पः द्रव्यार्थात् सामान्यलक्षणान्निर्गतपर्यायाभिधायकत्वात् समभिरूढस्य पर्यायभेदभिन्नार्थत्वात् एवंभूतस्यापि विवक्षितक्रियाकालार्थत्वात् लिङ्गसंज्ञा-क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वात् । शब्दादिषु तृतीयः, प्रथम-द्वितीयसंयोगे चतुर्थः तेष्वेव चानभिधेयसंयोगे पञ्चम-षष्ठ-सप्तमा वचनमार्गा भवन्ति ।
अथवा प्रदर्शितस्वरूपा सप्तभङ्गी संग्रह - व्यवहार - ऋजुसूत्रेष्वेवार्थनयेषु भवतीत्याह-एवं सत्तवियप्पो इत्यादिगाथाम् । अस्यास्तात्पर्यार्थः
७७
अर्थनय एव सप्त भङ्गाः, शब्दादिषु तु त्रिषु नयेषु प्रथम द्वितीयावेव भङ्गौ । यो ह्यर्थमाश्रित्य वक्तृस्थः संग्रह-व्यवहार-ऋजुसूत्राख्यः प्रत्ययः प्रादुर्भवति सोऽर्थनयः अर्थवशेन तदुत्पत्तेः अर्थं प्रधानतयासौ व्यवस्थापयतीति कृत्वा, शब्दं तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति तत्प्रयोगस्य परार्थत्वात् । यस्तु श्रोतरि तच्छब्दश्रवणादुद्गच्छति शब्द-समभिरूढ-एवंभूताख्यः प्रत्ययस्तस्य शब्दः प्रधानम्, तद्वशेन तदुत्पत्तेः अर्थस्तूपसर्जनम्, तदुत्पत्तावनिमित्तत्वात् स शब्दनय उच्यते । तत्र च वचनमार्गः सविकल्प निर्विकल्पतया द्विविधः - सविकल्पं सामान्यम्, निर्विकल्पः पर्यायः तदभिधानाद् वचनमपि तथा व्यपदिश्यते । तत्र शब्द- समभिरूढौ संज्ञाक्रियाभेदेऽप्यभिन्नमर्थं प्रतिपादयत इति तदभिप्रायेण सविकल्पो वचनमार्गः प्रथमभङ्गकरूपः । एवंभूतस्तु क्रियाभेदाद् भिन्नमेवार्थं तत्क्षणे प्रतिपादयतीति निर्विकल्पो द्वितीयभङ्गकरूपस्तद्वचनमार्गः । अवक्तव्यभङ्गकस्तु व्यञ्जननये न सम्भवत्येव यतः श्रोत्रभिप्रायो व्यञ्जननयः स च शब्दश्रवणादर्थं प्रतिपद्यते न शब्दाश्रवणात् अवक्तव्यं तु शब्दाभावविषय इति नावक्तव्यभङ्गकः व्यञ्जनपर्याये सम्भवतीत्यभिप्रायवता व्यञ्जनपर्याये तु सविकल्प-निर्विकल्पौ प्रथमद्वितीयावेव भङ्गावभिहितावाचार्येण तुशब्दस्य गाथायामेवकारार्थत्वात् । । ४१ । । [S.T.P. 448] -: अनेकान्तव्यवस्थायां :
सप्तभङ्गस्वरूपवर्णने, पत्र - ७२
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org